Enter your Email Address to subscribe to our newsletters


कोलकाता, १३ दिसम्बरमासः (हि.स.)। अन्ताराष्ट्रियख्यातिप्राप्तः पादकन्दुकक्रीडकः लियोनल् मेसी इत्यस्य कोलकातायात्रायां शनिवासरे तदा महतव्यवस्था जाता, यदा तस्य बहुप्रतीक्षितः कार्यक्रमः पूर्वनिर्धारितयोजनानुसारं पूर्णः कर्तुं न अशक्यत। पूर्णतया परिपूर्णे युवाभारतीक्रीडाङ्गणे दर्शकाः मेसीदर्शनाय बहुकालं प्रतीक्षमाणाः आसन्, किन्तु परिस्थितयः इत्थं अनियन्त्रिताः अभवन् यत् मेसी नियत-समयात् पूर्वमेव क्रीडाङ्गणं परित्यक्तवान्।
कार्यक्रमानुसारं मेसीना क्रीडास्थलस्य भ्रमणं कर्तव्यम् आसीत्, किन्तु वाहनस्य क्रीडाङ्गणसमीपे स्थगिते सति एव स्थितिः विघटिता। यदा मेसी अधोऽवततार, तदा सः सर्वतः जनैः परिवेष्टितः अभवत्। तस्मिन् समये अनेके प्रसिद्धाः जनाः पूर्व-क्रीडकश्च उपस्थिताः आसन्, तथापि सुरक्षाप्रबन्धनयोः अभावः स्पष्टतया दृश्यते स्म। जनसमुहः निरन्तरं वर्धिता, मेसीपरिवेष्टनं च भङ्गं गतम्।
क्रीडाङ्गणप्रवेशानन्तरं मेसीपरितः अपेक्षातोऽपि अधिकाः जनाः एकत्र अभवन्। आयोजकैः पुनः पुनः उद्घोषणा कृता केवलं अधिकृताः जनाः एव क्रीडाङ्गणे तिष्ठेयुः—किन्तु तस्य किञ्चिदपि प्रभावः न अभवत्। अस्मिन् समग्रे कार्यक्रमे आरक्षकविभागः पूर्णतया अनुपस्थित इव दृश्यते स्म। मेसीना सह आत्मचित्रग्रहणाय तथा हस्ताक्षरप्राप्तये स्पर्धा जाता। किञ्चित्कालं मेसी अग्रे गत्वा दर्शकान् प्रति हस्तं चालयामास, येन दीर्घिकासु उत्साहः चरमं प्राप्तवान्।
स्थितिः तदा अधिकं विकटिता, यदा मेसी दीर्घिकां प्रति गन्तुम् आरब्धवान्। दर्शकैः तीव्रनिनादाः कृताः, किन्तु कोलाहलाव्यवस्थयोः मध्ये कार्यक्रमः पूर्णतया मार्गात् भ्रष्टः। परिस्थितिभिः असहजः भूत्वा मेसी युवाभारतीक्रीडाङ्गणात् बहिर्निर्गतः। तस्य प्रस्थानानन्तरं दर्शकानां क्रोधः प्रकटः अभवत्।
मेसीप्रस्थानानन्तरं दीर्घिकाभ्यः क्रीडाङ्गणं प्रति कुपिकाः क्षिप्ताः। क्रीडास्थले स्थापितानि प्रायोजक-लफलकानि विदारितानि, केषुचित् स्थलेषु आसन्दाः अपि क्षिप्ताः। ततो दर्शकाः दीर्घिकाभ्यः अवतीर्य क्रीडाङ्गणं प्रविष्टवन्तः, क्रीडाङ्गणसमीपे स्थापितानां शिविरानाम् अपि क्षतिं अकुर्वन्।
अस्याः घटनायाः अनन्तरं आयोजनसंबद्धाः जनाः तथा कार्यक्रमे उपस्थिताः विशिष्टजनाः अपि स्थलात् अन्तर्धानं गताः इव दृश्यन्ते स्म। दर्शकाः आरोपयन्ति यत् एतादृशे महानन्ताराष्ट्रियजनः कार्यक्रमे सुरक्षाप्रबन्धनेषु गम्भीराः त्रुटयः आसन्, ताभ्यः कारणे कार्यक्रमः अपूर्णः अभवत् तथा अव्यवस्था हिंसात्मकरूपं प्राप्तवती।
यद्यपि पश्चात् आरक्षकविभागस्य केचन सैनिकाः दृश्यन्ते स्म, तथापि स्थितेः नियन्त्रणाय तैः महान् परिश्रमः कृतः।
हिन्दुस्थान समाचार / अंशु गुप्ता