Enter your Email Address to subscribe to our newsletters

कोलकाता, 13 दिसंबरमासः (हि.स.)।शुक्रवाररात्रौ भारतस्य त्रिदिवसीयभ्रमणे आगत्य अर्जेण्टिनादेशस्य विख्यातः पादकन्दुकक्रीडाकारी लियोनेल मेसी कोलकातानगरम् प्राप्तवान्। कोलकाताविमानपत्तने रात्रौ विलम्बे बहवः प्रशंसकाः उपस्थिताः आसन्, येन ते तस्य हार्दिकं स्वागतं कृतवन्तः।
शनिवासरे लियोनेल मेसी इत्यस्य अत्यन्तं व्यस्तः कार्यक्रमः अस्ति। अद्य प्रातः 9.30 वादनेभ्यः 10.30 वादनपर्यन्तं हावडा सेतौ प्रशंसकैः क्रीडाप्रेमिभिः च सह मेसीसम्बद्धः विशेषः कार्यक्रमः आयोज्यते। तदनन्तरं सः युवा भारती क्रीडाङ्गणं (साल्टलेक क्रीडाङ्गणम्) गमिष्यति, यत्र सांस्कृतिककार्यक्रमैः सह नृत्यसंगीतप्रस्तुतयः भविष्यन्ति। अस्य अवसरस्य विशेषाकर्षणरूपेण “मेसी ऑल स्टार बनाम डायमण्ड हार्बर ऑल स्टार” इति पादकन्दुकक्रीडामैत्रीप्रतियोगिता आयोज्यते। प्रातः प्रायः 10.50 वादने क्रीडाङ्गणे मेसीस्य प्रवेशः सम्भाव्यते।
कार्यक्रमकाले सः विभिन्नवर्गीयैः जनैः सह संवादं करिष्यति, बङ्गालप्रदेशस्य ट्रॉफीविजयीदलस्य सम्मानं करिष्यति, तथा च युवखेलाडुभिः सह विशेषे “मास्टर क्लास” सत्रे अपि भागं ग्रहीष्यति। तस्मिन् अवसरः तस्मै राजकीयसम्मानः अपि प्रदातुं योजना अस्ति।
आयोजनसम्बद्धसूत्रैः ज्ञायते यत् अस्मिन् अवसरः अन्तरराष्ट्रीयाः पादकन्दुकक्रीडाताराः लुईस सुआरेज तथा रोड्रिगो डे पॉल अपि उपस्थिताः भवितुं शक्नुवन्ति। अतिरिच्य पश्चिमबङ्गालस्य मुख्यमन्त्री ममता बनर्जीना तथा भारतीयक्रिकेटक्रीडायाः पूर्वकप्तानेन सौरभ गांगुलीना सह मेसीस्य भेंटिः अपि निश्चितेति कथ्यते।
कोलकातायाः कार्यक्रमानन्तरं मेसी चतुर्षु राज्येषु भ्रमणाय प्रस्थितुं योजना अस्ति। अस्य अन्तर्गतं हैदराबादे, मुम्बईनगरे, दिल्ली नगरे च पादकन्दुकक्रीडा, युवसंवादः, सम्मानसमारोहाः इत्यादयः निरन्तरकार्यक्रमाः आयोज्यन्ते। एतेषु नगरेषु अपि तस्य स्वागतं प्रति क्रीडाप्रेमिषु महान् उत्साहः दृश्यते।
कार्यक्रमस्य अन्तर्गतं नेताजी सुभाषचन्द्र बोसस्य सप्ततिफुटोन्नतप्रतिमायाः लोकार्पणम्, क्रीडाङ्गणपरिक्रमणम्, तथा च अपराह्ने 2.05 वादने निजीविमानेन डायमण्ड हार्बर नगरं प्रति प्रस्थानम् अपि उल्लिखितम् अस्ति।
आयोजकाः वदन्ति यत् अयं कार्यक्रमः केवलं लियोनेल मेसीस्य सम्मानार्थं न, अपि तु भारतस्य पादकन्दुकक्रीडासंस्कृतेः वैश्विकमञ्चे सुदृढप्रस्तुतेः ऐतिहासिकः अवसरः भविष्यति। तस्य भारतागमनं स्मरणीयं कर्तुं देशस्य चतुर्षु राज्येषु विशेषकार्यक्रमाणां विस्तृता रूपरेखा आयोजकैः प्रकाशिता अस्ति।
हिन्दुस्थान समाचार