संसद्भवनस्य आतङ्कवादी-आक्रमणस्य वर्षसम्पूर्तिबलिदानिभ्यः श्रद्धाञ्जलिः अर्पिता
नवदेहली, 13 दिसंबरमासः (हि.स.)। संसद्भवने सम्पन्नस्य आतङ्कवादी-आक्रमणस्य वर्षसम्पूर्तिः अद्य स्वप्राणान् आहुतीकृत्य देशरक्षार्थं बलिदानं दत्तवन्तः वीराः शहीदाः भावभीनया श्रद्धाञ्जल्या समर्पिताः। संसद्भवने आयोजिते कार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्
मंत्री संसद भवन पर आतंकी हमले की बरसीः राष्ट्र ने बलिदानियों को दी श्रद्धांजलि


हीउीरउ


नवदेहली, 13 दिसंबरमासः (हि.स.)। संसद्भवने सम्पन्नस्य आतङ्कवादी-आक्रमणस्य वर्षसम्पूर्तिः अद्य स्वप्राणान् आहुतीकृत्य देशरक्षार्थं बलिदानं दत्तवन्तः वीराः शहीदाः भावभीनया श्रद्धाञ्जल्या समर्पिताः। संसद्भवने आयोजिते कार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः एवं राज्यसभायाः सभापतिः सी.पी. राधाकृष्णनः, लोकसभाध्यक्षः ओमः बिरला, प्रधानमन्त्री नरेन्द्रमोदी तथा राज्यसभायाः उपसभापतिः हरिवंशः स्वश्रद्धासुमनानि अर्पितवन्तः।

अतिरिक्ततया रक्षामन्त्री राजनाथः सिंहः, गृहमन्त्री अमितः शाहः, केन्द्रीय-मन्त्रिमण्डलस्य अन्ये मन्त्रिणः, कांग्रेस-दलस्य नेतृ सोनिया गान्धी, राहुलः गान्धी, प्रियङ्का गान्धी, अन्ये च वर्तमानाः संसद-सदस्याः, पूर्व-संसद-सदस्याः तथा शहीदानां परिजनाः साहसिकानां सुरक्षाकर्मिणां कर्मठानां च कर्मकराणां सर्वोच्च-बलिदानं प्रति कोटि-कोटि नमस्कृतवन्तः। उल्लेखनीयं यत् १३ दिसम्बर् २००१ तमे वर्षे जैश्-ए-मोहम्मद् तथा लश्कर्-ए-तैय्यबा इत्येतयोः आतङ्कवादी-सङ्गठनयोः पञ्च आतङ्कवादिनः संसद्भवनं आक्रान्तवन्तः। अस्मिन् अवसरें भारतीय-सुरक्षाकर्मिणः स्वजीवितं पणीकृत्य न केवलं तेषां दुष्ट-सङ्कल्पान् विफलीकृतवन्तः, अपि तु सर्वान् आतङ्कवादिनः निहतवन्तः। अस्य घटनाक्रमस्य समये दिल्ली-आरक्षकबलस्य पञ्च सैनिकाः, एका महिला-कॉन्स्टेबल्, तथा द्वौ सुरक्षा-रक्षकौ बलिदानं दत्तवन्तः।

बलिदानिनां मध्ये राज्यसभा-सचिवालयस्य सुरक्षा-सहायकौ जगदीशप्रसादः यादवः तथा मातबरः सिंहः नेगी, केन्द्रीय-रिज़र्व-आरक्षक-बलस्य कॉन्स्टेबल् कमलेशः कुमारी, दिल्ली-आरक्षकबलस्य सहायक-उपनिरीक्षकौ नानकचन्दः तथा रामपालः, दिल्ली-आरक्षकबलस्य प्रधान-कॉन्स्टेबलाः ओमप्रकाशः, बिजेन्दरः सिंहः तथा घनश्यामः, तथा केन्द्रीय-लोकनिर्माण-विभागस्य माली देशराजः आसन्। कृतज्ञेन राष्ट्रेण तेषां अनुकरणीय-साहसस्य कारणात् जगदीशप्रसादः यादवः, मातबरः सिंहः नेगी तथा कमलेशः कुमारी मरणोपरान्तं अशोक-चक्रेण सम्मानिताः, यदा तु नानकचन्दः, रामपालः, ओमप्रकाशः, बिजेन्दरः सिंहः तथा घनश्यामः मरणोपरान्तं कीर्ति-चक्रेण सम्मानिताः।

एतेषां बलिदानिनां स्मरणं कुर्वन्ती राष्ट्रपतिः ‘एक्स्’ इति सामाजिक-माध्यमे अवदत्—“राष्ट्रं तान् साहसिकान् नायकान् नमति, ये २००१ तमे वर्षे अद्यैव अस्माकं संसदस्य रक्षां कुर्वन्तः स्वप्राणान् त्यक्तवन्तः। तेषां वीरता तथा कर्तव्यनिष्ठा अस्माकं राष्ट्रीय-भावनां सततं प्रेरयिष्यति। देशः तेषां तथा तेषां परिवाराणां प्रति सदैव ऋणी भविष्यति। अस्मिन् दिने वयं आतंकवादस्य सर्वेषु रूपेषु विरुद्धं संघर्षं कर्तुं भारतस्य प्रतिबद्धतां पुनः दृढयामः।” उपराष्ट्रपतिः ‘एक्स्’ इति माध्यमे अवदत् यत् बलिदानिनां अटूटः साहसः आतंकवादस्य विरुद्धं एकजुटतया स्थितुं राष्ट्रस्य संकल्पस्य नित्यस्मारकः अस्ति। वयं लोकतन्त्रस्य मूल्यानां रक्षणाय तथा एतादृशानि बलिदानानि भावी-पिढीः भारतस्य सार्वभौमिकतां अखण्डतां च संरक्षितुं प्रेरयन्तु इति सुनिश्चितं कर्तुं स्वसामूहिक-प्रतिबद्धतां पुनरावर्तयामः। प्रधानमन्त्रीः शहीदेभ्यः नमनं कुर्वन् ‘एक्स्’ इति माध्यमे अवदत्—“अद्य अस्माकं राष्ट्रं तान् स्मरति ये २००१ तमे वर्षे अस्माकं संसद्भवने अभवतः भीषणस्य आक्रमणस्य समये स्वजीवितं त्यक्तवन्तः। गम्भीर-सङ्कटस्य सम्मुखे स्थित्वा तेषां साहसम्, सतर्कता तथा कर्तव्ये अटूटा भावना अद्भुता आसीत्। भारतं तेषां सर्वोच्च-बलिदानाय सदैव कृतज्ञं भविष्यति।”

लोकसभाध्यक्षः ओमबिरला ‘एक्स्’ इति माध्यमे अवदत् यत् अमर-वीरैः यया वीरतया आतंकवादिनः प्रत्यभिमुखीकृताः, सा कर्तव्यपालनस्य सह लोकतान्त्रिक-मूल्यानां राष्ट्ररक्षणस्य च प्रति भारतस्य अदम्य-इच्छाशक्तेः प्रतीकः अस्ति। भारतं आतंकवादस्य विरोधे सदैव दृढतया स्थितम् अस्ति। एतत् अतुलनीयं बलिदानम् अस्माकं भावी-पिढीभ्यः साहसस्य, त्यागस्य, कर्तव्यनिष्ठायाश्च प्रेरणास्रोतः भविष्यति। रक्षामन्त्री राजनाथः सिंहः अवदत् यत् साहसिकानां सुरक्षाकर्मिणां वीरता, सर्वोच्च-बलिदानं तथा कर्तव्ये अटूटा भावना देशस्य चेतनायां सदैव जीविता भविष्यति तथा भारतस्य संकल्पं निरन्तरं प्रेरयिष्यति। गृहमन्त्री अमितः शाहः अवदत् यत् अद्य आतंकवादस्य विरुद्धं अस्माकं सुरक्षाबलानां अदम्यं साहसं वीरतां च पुनः स्मरणीयं दिनम् अस्ति। राष्ट्रं एतेषां वीरयोद्धॄणां बलिदानस्य शहादतस्य च प्रति सदैव ऋणी भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता