Enter your Email Address to subscribe to our newsletters

वाराणसी, 13 दिसंबरमासः (हि.स.)।वाराणसीनगरे काण्ट् रेल्वेस्थानकस्य सम्मुखे स्थिते प्रतापपैलेस् नामके स्थले कोआपरेटिव् बैंक् एम्प्लॉइज् यूनियन् उत्तरप्रदेशस्य द्विदिवसीयं नवविंशतितमं प्रान्तीयाधिवेशनं शनिवासरे आरएसएस् इत्यस्य प्रचारकेन मनोजेन दीपप्रज्वलनेन शुभारम्भं कृतम्।
प्रान्तीयाधिवेशने मुख्यातिथिरूपेण उपस्थितः संघप्रचारकः मनोजः अवदत् यत् सहकारीबैंककर्मचारिणां याः प्रमुखाः समस्याः सन्ति, तासां समाधानार्थं सः प्रयत्नं करिष्यति। सः भारतीयमजदूरसंघस्य नारं उद्धृत्य अवदत्— “देशस्य हिताय कार्यं करिष्यामि, कार्यस्य च पूर्णं मूल्यं स्वीकरिष्यामि।” अस्य नारस्य चरितार्थतया यूयं राष्ट्रनिर्माणे राष्ट्रहिते च यानि कार्याणि कुर्वथ, तेषां लाभः भवद्भ्यः अवश्यं प्राप्स्यते। संघः स्वस्य शताब्दीवर्षम् आचरति। अद्यतनपरिवेशे अस्माकं काचित् भूमिका अस्ति। देशस्य उत्तरदायी नागरिकत्वेन अस्माभिः चिन्तनीयं यत् केचन जनाः देशं भेत्तुं इच्छन्ति। स्वदेशीभावनां स्वीकृत्य देशं सुदृढं कर्तव्यम् इति सः अवदत्।
संरक्षकः राजेश्वरसिंहः यूनियनस्य इतिहासं तथा तया कृतानि कार्याणि विस्तरेण प्रस्तुतवान्। पूर्वमहामन्त्री च संरक्षकश्च महेशसिंहः अवदत् यत् यदि वित्तकोषाः विभागीयबन्धनात् मुक्ताः क्रियेरन्, तर्हि ते अत्यधिकं विकसिताः भविष्यन्ति, उत्तरप्रदेशः च सहकारिताक्षेत्रे गुजरातराज्यं अपि अतिक्रमिष्यति।
अतिथीनां स्वागतं वाराणसीयूनिट इत्यस्य मन्त्री नायबसिंहस्य नेतृत्वे पुष्पगुच्छैः अङ्गवस्त्रैश्च कृतम्। सत्रस्य अध्यक्षतां जिलासहकारीबैंकस्य अध्यक्षः सुमनअजय रायः अकरोत्। कार्यक्रमस्य संचालनं महामन्त्री सुधीरसिंहः अमितकुमारसैनी च अकरोताम्।
अधिवेशने प्रदेशाध्यक्षः राजकुमारशर्मा, वित्तकोषस्य सीईओ मिलिन्दः, बी एन चौबे, शेषनाथयादवः, आनन्दकुमारत्रिपाठी, ईश्वरचौहानः, सन्तोषसोनकरः, महेशकुमारसिंहः, प्रवीणकुमारः, धर्मेन्द्रदीक्षितः इत्यादयः बहवः गणमान्याः जनाः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार