Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्,10 दिसंबरमासः (हि.स.)। पूर्वः केन्द्रीयमन्त्री साध्वी निरञ्जनज्योतिः शनिवासरे लखनऊस्थितं भारतीयजनतापक्षस्य (भा.ज.पा.) प्रदेशकार्यालयं प्राप्तवती। सा पत्रकारैः सह संवादं कुर्वन्ती अवदत् यत् प्रदेशाध्यक्ष-पदस्य स्पर्धायां अहं न अस्मि। अहं किञ्चिदपि नामाङ्कनं समर्पयितुं न गच्छामि। एतत् मम गृहं अस्ति, अत एव अहं अत्र आगता अस्मि।
विदितमेव यत् प्रदेशाध्यक्ष-पदाय साध्वी-निरञ्जनज्योतेः नाम चर्चायां आसीत्। तस्याः अस्य वक्तव्यस्य अनन्तरं एतत् स्पष्टं जातं यत् सा प्रदेशाध्यक्षस्य स्पर्धायां न अस्ति। अधुना केन्द्रीय-राज्यमन्त्री बी.एल् वर्मा तथा केन्द्रीय-राज्यमन्त्री पङ्कज् चौधरी इत्येतयोः नाम्नी चर्चायां स्तः।
भारतीयजनतापक्षस्य प्रदेशप्रवक्ता हीरो बाजपेयी अवदत् यत् अद्य प्रदेशाध्यक्ष-पदाय नामाङ्कनानि समर्पयिष्यन्ते। शीघ्रमेव भारतीयजनतापक्षः नवं प्रदेशाध्यक्षं प्राप्स्यति। नवे प्रदेशाध्यक्षे विषये कार्यकर्तॄषु महती उत्सुकता दृश्यते।-------------
हिन्दुस्थान समाचार / अंशु गुप्ता