Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 13 दिसंबरमासः (हि.स.)।
संसदभवने कृतस्य आतङ्कवादीयस
य आक्रमणस्य वार्षिक्यां काङ्ग्रेसदलेन सह विविधराजनीतिकदलानां नेतारः तथा विभिन्नप्रदेशानां मुख्यमन्त्रिणः बलिदानिनां प्रति भावपूर्णं श्रद्धाञ्जलिम् अर्पितवन्तः।
१३ दिसम्बर २००१ तमे दिने जैश ए मोहम्मद तथा लश्कर ए तैय्यबा इत्येतयोः आतङ्कवादीसंगठनयोः पञ्च आतङ्कवादिनः संसदभवने आक्रमणं कृतवन्तः। किन्तु भारतीयसुरक्षाकर्मिणः स्वजीवितं पणीकृत्य न केवलं तेषां दुष्टसङ्कल्पान् विफलीकृतवन्तः, अपि तु सर्वान् आतङ्कवादिनः निहतवन्तः। अस्मिन् संघर्षे दिल्लीपुलिसस्य पञ्च जवानाः, एका महिला कान्स्टेबलः तथा द्वौ सुरक्षारक्षकौ वीरगतिं प्राप्तवन्तः। एतत् बलिदानं लोकतन्त्ररक्षणस्य आतङ्कवादविरोधे देशस्य अटूटसंकल्पस्य च प्रतीकम् अस्ति।
काङ्ग्रेसदलस्य राष्ट्रियाध्यक्षः मल्लिकार्जुनखड्गेः संसदभवने कृतस्य आतङ्कवादीय आक्रमणकाले बलिदानं दत्तवतः प्रति श्रद्धासुमनानि अर्पयन् अवदत् यत् तेषां अतुलनीयं शौर्यं बलिदानं च राष्ट्रस्य स्मृतौ अङ्कितम् अस्ति, भारतं च आतङ्कवादविरोधे एकजुटं सुदृढं च अस्ति।
उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः संसदभवने कृतम् आतङ्कवादीय आक्रमणं राष्ट्रस्य स्वायत्ततायाः स्वाभिमानस्य लोकशक्तेः च नृशंसाघातं इति वर्णयन्, संसदस्य गरिमारक्षणार्थं स्वप्राणान् न्यच्छावरयन्तान् अमरवीरान् प्रति श्रद्धाञ्जलिं अर्पितवान्।
उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी अवदत् यत् राष्ट्रस्य सुरक्षार्थं जवानैः कृतं अमरं बलिदानं देशवासिनां कृते प्रेरणास्रोतः अस्ति।
दिल्लीप्रदेशस्य मुख्यमन्त्री रेखागुप्ता अवदत् यत् संसदभवने कृतस्य आतङ्कवादीय आक्रमणस्य समये बलिदानं दत्तवतः वीरसपूताः भारतस्य लोकतान्त्रिकात्मरक्षणे तेषाम् अडिगसंकल्पस्य प्रतीकाः सन्ति, ये आगामिसंततीः निरन्तरं प्रेरयिष्यन्ति।
---------------
हिन्दुस्थान समाचार