Enter your Email Address to subscribe to our newsletters

-34 मित्र देशैः सहिता आहत्य525सैनिकच्छात्राः उत्तीर्णाः।
देहरादूनम्, 13 दिसंबरमासः (हि.स.)। भारतीयसैन्यअकादम्यां (आईएमए) 157 तमे पासिंग आउट परेड (पीओपी) अनन्तरं शनिवासरे 491 जेन्टलमैन कैडेटाः अधिकारीरूपेण भारतीयसेनायाः अङ्गं जाताः। एतत्सह मित्रराष्ट्राणां 34 कैडेटाः अपि प्रशिक्षणं समाप्य स्वस्वदेशीयसेनासु नियुक्ताः। भारतीयसेनाप्रमुखः थलसेनाध्यक्षः जनरल् उपेन्द्रः द्विवेदी समीक्षा-अधिकारीरूपेण परेडस्य सलामीं स्वीकृतवान्। अस्मिन् अवसरः देशभक्तिगीतानां तालमेलनेन वीराणां पदसञ्चालनं अत्यन्तं दर्शनीयं आसीत्।
अद्य अकादमी एकस्य ऐतिहासिकक्षणस्य साक्षिणी अभवत्, यत्र 491 भारतीयकैडेटाः तथा 14 मित्रराष्ट्राणां 34 कैडेटाः सहितं कुलं 525 कैडेटाः उत्साहेन पदसञ्चालनं कुर्वन्तः नवदायित्वस्य दिशि अग्रसराः अभवन्। आईएमए इत्यस्य ऐतिहासिकचेटवुडभवनस्य पुरतः ड्रिल् स्क्वायरे प्रातः 09 वादनं 05 निमेषे परेड आरब्धा। परेड-कमाण्डरः भावी अधिकारी अङ्कितः चौधरी तेषां नेतृत्वं कृतवान्। समीक्षा-अधिकारी उपेन्द्रः द्विवेदी सलामीं स्वीकृत्य परेडस्य निरीक्षणं कृतवान्। विजयधुन्या सह पदसञ्चालनं सम्पन्नम्। मुख्यातिथिना कैडेटाः समग्रश्रेष्ठप्रदर्शनपुरस्कारैः अन्यैश्च उत्कृष्टसम्मानैः सम्मानिताः।
यदा देशस्य भावी सैन्याधिकारिणः अकादम्यां अन्तिमं पगं न्यधुः, तदा हेलीकॉप्टरात् पुष्पवृष्टिः अपि कृता। थलसेनाध्यक्षः जनरल् उपेन्द्रः द्विवेदी परेडस्य समीक्षां कृत्वा नव-नियुक्तान् अधिकारिणः प्रशिक्षणस्य सफलसमापनाय अभिनन्दितवान्। सः युवा-अधिकारिणां उच्चस्तरीय-अनुशासनं, नेतृत्वक्षमतां, सहनशीलतां च प्रशंसितवान्। तान् भारतीयसेनायाः गौरवशालीपरम्परायाः पालनाय तथा निष्ठया, प्रतिबद्धतया, सम्मानभावेन च राष्ट्रसेवायै आह्वानं कृतवान्। अस्मिन् अवसरः सः अवदत् यत् सेनायां कमीशन-प्राप्तिः केवलं प्रशिक्षणस्य समाप्तिः न, अपि तु राष्ट्रं प्रति आजीवनकर्तव्यस्य निःस्वार्थसेवायाश्च आरम्भः अस्ति। एतत् न केवलं भारतस्य रक्षानेतृत्वं सुदृढं करोति, अपि तु मित्रराष्ट्रैः सह दीर्घकालीनसैन्यसहयोगं अपि सशक्तं करोति।
157 तमः रेगुलर् कोर्सः, 46 तमः टेक्निकल् एन्ट्री स्कीमः, 140 तमः टेक्निकल् ग्रेजुएट् कोर्सः, 55 तमः स्पेशल् कमीशन्ड् ऑफिसर्स् कोर्सः, तथा टेरिटोरियल् आर्मी ऑनलाइन एन्ट्री एग्ज़ाम् 2023 कोर्सः — एतेषां अन्तर्गतं कुलं 525 अधिकारीकैडेटाः तथा 14 मित्रराष्ट्राणां 34 विदेशी अधिकारीकैडेटाः कमीशनं प्राप्तवन्तः।
अस्य गरिमामयसमारोहस्य साक्षिणः गर्विताः अभिभावकाः, परिजनाः, वरिष्ठसैन्याधिकारिणः, अनेके विशिष्टातिथयः च अभवन्। परेडस्य समापनं परम्परागत “अन्तिम पग” इति विधिना अभवत्, यत्र युवा-अधिकारिणः राष्ट्रस्य संप्रभुता, सम्मानं, मूल्यानि च रक्षितुं दृढसंकल्पेन अग्रे प्रस्थिताः।
प्रमुखपुरस्काराः
स्वॉर्ड् ऑफ् ऑनर् तथा स्वर्णपदकं (मेरिटे प्रथमस्थानाय) एसीए निश्कलः द्विवेदी प्राप्तवान्। रजतपदकं (द्वितीयस्थानाय) बीयूओ बादलः यादवः, कांस्यपदकं (तृतीयस्थानाय) एसयूओ कमलजीतः सिंहः प्राप्तवान्।
टेक्निकल् ग्रेजुएट् कोर्से मेरिटे प्रथमस्थानाय ऑफिसर् कैडेट् जाधवः सुजीतः संपत्, टेक्निकल् एन्ट्री स्कीम–46 मध्ये प्रथमस्थानाय डब्ल्यूसीसी अभिनवः मेहरोत्रा च रजतपदकाभ्यां सम्मानितौ। स्पेशल् कमीशन ऑफिसर् कोर्सस्य रजतपदकं ऑफिसर् कैडेट् सुनीलः कुमारः छेत्री प्राप्तवान्।
विदेशीसैनिकच्छात्रैः वरीयतासूच्यां प्रथमस्थानपदकं बांग्लादेशदेशस्य जेयूओ मोहम्मदः सफीनः अशरफः प्राप्तवान्। ऑटम् टर्म् 2025 मध्ये समग्ररूपेण श्रेष्ठप्रदर्शनाय इम्फाल् कम्पनी थलसेनाध्यक्षबैनर् द्वारा सम्मानिता।
157 तमे कोर्स इत्यनेन सह भारतीयसैन्यअकादमी पुनः एकवारं राष्ट्राय साहस, व्यावसायिकदक्षता, अटूटसमर्पणं च वहताम् अधिकारिणां निर्माणे स्वां गौरवशालीपरम्परां सुदृढीकृतवती अस्ति।-----------
हिन्दुस्थान समाचार