Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 13 दिसंबरमासः (हि.स.)।
कनखलस्थिते मृत्युजयमठे परमाध्यक्षेण महामण्डलेश्वरस्वामिना यमुनापुरीमहाराजेन शिष्ये वैराग्यपुरीेआश्रमात् लक्षाधिकरूप्यकनगदधनस्य तथा मूल्यवतां वस्तूनां चौर्यस्य आरोपे कृते, अद्य स्वामी वैराग्यपुरीमहाराजः प्रत्युत्तरं दत्त्वा स्वगुरौ गम्भीरान् आरोपान् अकरोत्।
शनिवासरे पत्रकारैः सह वार्तालापं कुर्वन् स्वामी वैराग्यपुरीमहाराजः अवदत् यत् स्वामी यमुनापुरिणा ये चौर्यसम्बन्धिनः आरोपाः मयि आरोपिताः, ते सर्वे निराधाराः सन्ति। तेन उक्तं यत् अभियोगं विधाय स्वामी यमुनापुरी मम निग्रहणं निवारयितुं उच्चन्यायालयस्य शरणं गतवान्। तत्र उच्चन्यायालये स्वामिनो यमुनापुरिणः अधिवक्ता चौर्यस्य प्रमाणानां अस्तित्वं विहितवान् किन्तु न्यायालयस्य समक्षं किमपि प्रमाणं प्रस्तोतुं न अशक्नोत्। तस्मात् न्यायालयेन मम निग्रहणविषये स्थगनादेशः प्रदत्तः। ततः परं मया कनखलपुलिस्थाने स्ववक्तव्यं अभिलेखितम्।
स्वामी वैराग्यपुरीमहाराजः सनसनीपूर्णम् उद्घाटनं कुर्वन् अवदत् यत् स्वामी यमुनापुरिणः आश्रमे सर्वप्रकारकाः अनैतिकक्रियाः प्रवर्तन्ते। तेन कथितं यत् स्वामी यमुनापुरी पूर्वं महानिर्वाणी-अखाडायाः सन्तः आसीत् तथा हरियाणास्थिते अरुणायलमठे निरीक्षणकार्यं कुर्वन् आसीत्। तत्र तस्य कुकर्माणि दृष्ट्वा अखाडेन तं निष्कासितः। तदनन्तरं ऋषिकेशस्थिते चन्द्रेश्वरमहादेवमन्दिरस्य देखरेखायै सः प्रेषितः, किन्तु तस्य दुर्वृत्तयः न न्यूनाः अभवन्, अतः अखाडया तत्रापि सः बहिष्कृतः। तदनन्तरं सः जूना-अखाडस्य शरणं गतवान्। जूना-अखाडया स्वामी यमुनापुरी महन्तः इति घोषितः अस्ति, किन्तु सः स्वयमेव महामण्डलेश्वरः इति लिखति।
स्वामी वैराग्यपुरीमहाराजः अवदत् यत् सः संवत्सरात् २००९ आरभ्य आश्रमे निवसति। स्वामी यमुनापुरीस्य आचरणदोषान् दृष्ट्वा सः बहुवारं तं स्वभावपरिवर्तनाय उपदिष्टवान्, किन्तु युवकासक्तिः तस्मात् न अपसरत्। सः पुनः अवदत् यत् मयि ये ये आरोपाः कृताः, ते सर्वे असत्याः निराधाराः च सन्ति।
स्वामी वैराग्यपुरीमहाराजः अपि अवदत् यत् यदि आश्रमस्य तथा स्वामी यमुनापुरीस्य यथार्थतया अनुसन्धानं क्रियेत, तर्हि अनेकानि रहस्यानि प्रकाशं यास्यन्ति। अस्यां पत्रकारवार्तायां स्वामी मणिराजपुरी तथा अन्ये अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार