Enter your Email Address to subscribe to our newsletters

हमीरपुरम्, १३ दिसम्बरमासः (हि.स.)। नशानियन्त्रणार्थं स्थानीयनिकायस्तरे प्रभावीव्यवस्थापनं कर्तुं प्रदेशसर्वकारस्य निर्णयानुसारं हमीरपुरजनपदे अपि प्रथमचरणे त्रिषु नगरीयनिकायेषु हमीरपुरनगरनिगमे, सुजानपुरनगरपरिषदि, नादौननगरपरिषदि तथा एकादश ग्रामपञ्चायतासु बणी, टिप्पर, बढेड़ा, जोल-सप्पड़, मण, फाहल, कड़ोहता, लगमनवीं, भोरंज, भौंखर, धमरोल—नशानिवारणसमितीनां गठनं कृतम् अस्ति।
अस्मिन् विषये आदेशं निर्गमयन् उपायुक्तः अमरजीतसिंहः अवदत् यत् अधुना जनपदे नशया अधिकं प्रभावितेषु नगरीयनिकायेषु च ग्रामपञ्चायतासु नशानिवारणसमितयः गठिताः सन्ति। एतासु समितिषु सम्बन्धित-क्षेत्रस्य विद्यालयस्य प्रधानाचार्यः अथवा मुख्याध्यापकः अध्यक्षः नियुक्तः अस्ति, तथा तस्यैव क्षेत्रस्य स्थानकस्य अथवा चौकीस्थः आरक्षक-लकर्मचारी सदस्यसचिवः नियुक्तः अस्ति। एतासु समितिषु सम्बन्धितनगरीयनिकायस्य कार्यकारी-अधिकारी, ग्रामपञ्चायतस्य सचिवः अथवा पञ्चायतसहायकः, पटवारी, आशाकार्यकर्ता, महिलामण्डलस्य अथवा युवकमण्डलस्य प्रतिनिधिः, समाजसेवकाः, वरिष्ठनागरिकाः अथवा अन्ये स्वयंसहायकाः सदस्यरूपेण समाविष्टाः सन्ति।
उपायुक्तेन सर्वासां चतुर्दश अधिसूचितनशानिवारणसमितीनां १५ दिसम्बरदिवसे प्रथमसभां आयोजयितुं तथा तस्याः कार्यवाहीप्रतिवेदनं प्रेषयितुं निर्देशाः दत्ताः सन्ति। एताः समितयः प्रतिमासं सभां आयोजयित्वा प्रतिवेदनं प्रेषयिष्यन्ति। एतासां समितीनां प्रमुखकर्तव्येषु क्षेत्रे नशायाः स्थितेः पर्यवेक्षणं, कस्यापि संशयास्पदक्रियाकलापस्य त्वरितं आरक्षकविभागं सूचयितुं, जागरूकताकार्यक्रमान् आयोजयितुं, तथा नशासमस्याया निवारणार्थं आरक्षकविभागेन, स्वास्थ्यविभागेन, आबकारीविभागेन, शिक्षाविभागेन च सह समन्वयं स्थापयितुं इत्यादीनि अन्तर्भवन्ति। जनपदे आरक्षकाधीक्षकः प्रत्येकत्रैमासानन्तरं एतासां समितीनां कार्याणां समीक्षा करिष्यति तथा तस्याः प्रतिवेदनं गृहविभागं प्रेषयिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता