Enter your Email Address to subscribe to our newsletters

चंडीगढ़म्, 13 दिसंबरमासः (हि.स.)।
पञ्जाब् कांग्रेसदले मुख्यमन्त्रीपदप्राप्त्यर्थं उच्चनेतृत्वाय पञ्चशतकोटिरूप्यकाणि दत्तानि इति कथनात् अनन्तरं यः विवादः आरब्धः स अद्यापि न विरमति। अस्य कथनस्य अनन्तरं स्वसुरक्षायाः याचनां कृतवत्याः नवजोतकौर सिद्धोः विषये मुख्यमन्त्री भगवन्तमानः प्रत्याक्रमणं कृतवान्।
मुख्यमन्त्री मानः शनिवासरे चण्डीगढे पत्रकारैः सह संवादे अस्मिन् विषये अवदत् यत् यदि इदानीं तास्याः प्राणभयः अनुभूयते तर्हि पूर्वमेव विचार्य मितभाषिता कर्तव्या आसीत्। नवजोतकौर सिद्धूः ट्वीट् कृत्वा स्वलेखे अलिखत् यत् मुख्यमन्त्री भगवन्तमानजी, मम अभिप्रायः अस्ति यत् इदानीं मम किञ्चित् सुरक्षा अपेक्षिता। मम सुरक्षायाः उत्तरदायित्वं भवतः एव। कृपया एतदपि कथयतु यत् पञ्जाबराज्यपालस्य सम्मुखे मया ये विषयाः प्रस्तुताः तेषां विषये भवतः किमपि उत्तरं कुतः न आगतम्। भवान् मद्यव्यापारमाफियां तथा खननमाफियां कुतः संरक्षणं ददाति।
एतस्मिन् प्रत्युत्तरं दत्त्वा मुख्यमन्त्री भगवन्तमानः अवदत् यत् नेतारः प्रथमं तु यद् मुखे आगच्छति तद् अविचार्य विपरीतान् वक्तव्यांश्च वदन्ति, ततः अनन्तरं मम समीपम् आगत्य वदन्ति यत् अस्माकं प्राणभयः अस्ति। नवजोतकौरम् उद्दिश्य मानः अपि अवदत् यत् तस्याः वक्तव्येन तु कांग्रेसदले अपि आसनस्य मूल्यनिर्धारणं कृतमिव दृश्यते।
---------------
हिन्दुस्थान समाचार