भाजपायाः सुनील बंसल स्नेह मिलन कार्यक्रमे सम्मेलितुं प्राप्नोत् वाराणसीम्
वाराणसी,14 दिसंबरमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रीयमहामन्त्री सुनीलबंसलः रविवासरस्य अपराह्णे उत्तरप्रदेशस्य वाराणसीनगरे समागतः। बाबतपुरस्थिते लालबहादुरशास्त्रीअन्तरराष्ट्रीयविमानपत्तने पक्षस्य पदाधिकारिभिः जनप्रतिनिधिभिः च सुनीलबंसलस्य स्व
भाजपा के राष्ट्रीय महामंत्री सुनील बंसल का स्वागत करते कार्यकर्ता


वाराणसी,14 दिसंबरमासः (हि.स.)।

भारतीयजनतापक्षस्य राष्ट्रीयमहामन्त्री सुनीलबंसलः रविवासरस्य अपराह्णे उत्तरप्रदेशस्य वाराणसीनगरे समागतः। बाबतपुरस्थिते लालबहादुरशास्त्रीअन्तरराष्ट्रीयविमानपत्तने पक्षस्य पदाधिकारिभिः जनप्रतिनिधिभिः च सुनीलबंसलस्य स्वागतं कृतम्। तत्र स्वागतकर्तृषु जिलाध्यक्षः तथा विधानपरिषदस्य सदस्यः हंसराजविश्वकर्मा, कैन्ट् विधानसभा–विधायकः सौरभश्रीवास्तवः, विधानपरिषदस्य सदस्यः अश्वनित्यागी, जगदीशपटेलः, अरुणपाठकः, महापौरः अशोकतिवारी, जिलापञ्चायताध्यक्षाः पूनम्मौर्या, वाराणसीमहानगराध्यक्षः प्रदीपअग्रहरिः, पक्षस्य प्रोटोकॉलप्रभारी शैलेशपाण्डेयः इत्यादयः सम्मिलिताः आसन्। विमानपत्तनात् अनन्तरं राष्ट्रीयमहामन्त्री पक्षनेतृभिः सह नगरं प्रति प्रस्थितः।

राष्ट्रीयमहामन्त्री सुनीलबंसलः पक्षस्य बूथाध्यक्षानां स्नेहमिलनकार्यक्रमे भागं ग्रहीष्यति। अस्मिन् कार्यक्रमे २०२४ लोकसभानिर्वाचने उत्कृष्टं कार्यं कृतवन्तः बूथाध्यक्षाः सम्मानिताः भविष्यन्ति। अत्र वाराणसीलोकसभाक्षेत्रस्य पञ्चसु विधानसभा–क्षेत्रेषु—वाराणसीदक्षिणी, उत्तरि, कैन्ट्, रोहनिया तथा सेवापुरी—स्थितेषु सर्वेषु १९१३ बूथेषु नियुक्ताः बूथाध्यक्षाः, शक्तिकेन्द्रप्रमुखाः, सर्वे जनप्रतिनिधयः तथा पार्षदाश्च सहभागं करिष्यन्ति।

अस्यां एव सभायां २०२४ लोकसभानिर्वाचने येषु बूथेषु सप्ततिशताधिकं मतदानं सम्पन्नं जातम्, तादृशेषु ११६ बूथेषु कार्यरताः बूथाध्यक्षाः विशेषरूपेण सम्मानिताः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार