Enter your Email Address to subscribe to our newsletters

उत्तप्रदेशभाजपायाः संगठन पर्व समारोहे सम्मिलितः केंद्रीय मंत्री पीयूष गाेयलः
लखनऊ, 14 दिसंबरमासः (हि.स.)।केन्द्रीयवाणिज्यमन्त्री पीयूषगोयलमहाशयस्य वक्तव्यस्य संस्कृतभाषान्तरणम्
केन्द्रीयवाणिज्यमन्त्री पीयूषगोयलमहाशयः अवदत् यत् वयं सर्वे विश्वस्य सर्वातिवृहदः राजनैतिकपक्षस्य, अर्थात् भारतीयजनतापक्षस्य, सदस्याः स्मः। विश्वं विस्मितं भवति यत् अस्माकं पक्षे यथाव्यवस्थितेन तथा लोकतान्त्रिकरीत्या सदस्यनिर्माणात् आरभ्य राष्ट्रियाध्यक्षस्य चयनपर्यन्तं सर्वं कार्यं परस्परसमन्वयेन एव सम्पन्नं भवति, यत् अन्यत्र अकल्पनीयम् इव दृश्यते।
केन्द्रीयवाणिज्यमन्त्री गोयलमहाशयः रविवासरे अत्र डा राममनोहरलोहियाविधिविश्वविद्यालयस्य सभागारे आयोजिते भारतीयजनतापक्षस्य संगठनपर्वसमारोहे नवनिर्वाचितप्रदेशाध्यक्षस्य तथा राष्ट्रियपरिषदसदस्यानां आधिकारिकघोषणानन्तरं उपस्थितान् संबोधितवान्। सः अवदत् यत् संगठनपर्वस्य अस्मिन् पावने अवसरं मम महान् हर्षः अस्ति, यतः सर्वसम्मत्या केन्द्रीयवित्तराज्यमन्त्री पङ्कजचौधरीमहाशयः भारतीयजनतापक्षस्य उत्तरप्रदेशाध्यक्षरूपेण निर्वाचितः इति अहं घोषितवान्।
पार्टीकार्यकर्तॄणां प्रशंसापीयूषगोयलमहाशयः अवदत् यत् अस्माकं पक्षे एकलक्षद्विषष्टिसहस्राधिकेषु बूथेषु निर्वाचनप्रक्रिया भवति, तथा सर्वसम्मत्या एव घोषणाः क्रियन्ते। एतस्य सर्वस्य श्रेयः पक्षकार्यकर्तृभ्यः एव गच्छति। सः उक्तवान् यत् डा श्यामाप्रसादमुखर्जी, पण्डितदीनदयालउपाध्याय, तथा अटलविहारीवाजपेयीमहाशयैः यथा पक्षः अग्रे नीतः, तथा अद्य प्रधानमन्त्री नरेन्द्रमोदीमहाशयस्य एवं राष्ट्रियाध्यक्ष जेपी नड्डामहाशयस्य मार्गदर्शनेन पक्षस्य निरन्तरं विस्तारः भवति। तस्यैव परिणामस्वरूपेण अद्य वयं सर्वे एतावती महान् संख्यायां अत्र एकत्र समागताः स्मः।
राष्ट्रियपरिषदसदस्यानां नामघोषणाअस्मिन् अवसरं गोयलमहाशयः राष्ट्रियपरिषदस्य सदस्यानाम् अपि घोषणां कृतवान्। सः उक्तवान् यत् कुलं १२० राष्ट्रियपरिषदसदस्याः सन्ति, तेषु केषाञ्चन प्रमुखानां नामानि सः उल्लिखितवान्। नवनिर्वाचितप्रदेशाध्यक्षं तथा राष्ट्रियपरिषदसदस्यान् सः हार्दिकैः शुभाशयैः अभिनन्दितवान्।
सः अवदत् यत् राष्ट्रियपरिषदायां प्रधानमन्त्री नरेन्द्रमोदीमहाशयः तथा मुख्यमन्त्री योगीआदित्यनाथमहाशयः अपि सदस्यरूपेण समाविष्टौ स्तः। प्रधानमन्त्री मोदी वाराणसीतः, तथा मुख्यमन्त्री योगीआदित्यनाथः गोरखपुरतः सदस्यत्वेन चयनितौ। अतिरिक्तरूपेण रक्षामन्त्री राजनाथसिंहमहाशयः लखनऊतः, उपमुख्यमन्त्री केशवप्रसादमौर्यमहाशयः प्रयागराजतः, तथा उपमुख्यमन्त्री ब्रजेशपाठकमहाशयः उन्नावतः राष्ट्रियपरिषदस्य सदस्याः अभवन्।
एवमेव भूपेन्द्रसिंहचौधरीमहाशयः सम्भलतः, स्मृतिईरानीमहाशया सुलतानपुरतः, डा महेन्द्रनाथपाण्डेयमहाशयः वाराणसीतः, सूर्यप्रतापशाहीमहाशयः सलेमपुरतः, स्वतन्त्रदेवसिंहमहाशयः बाँदातः, तथा डा रमापतिरामत्रिपाठी गोरखपुरतः राष्ट्रियपरिषदसदस्यरूपेण नियुक्ताः अभवन्।
हिन्दुस्थान समाचार