Enter your Email Address to subscribe to our newsletters


जयपुरम्, 14 दिसंबरमासः (हि.स.)।मुख्यमन्त्री भजनलाल शर्मा रविवासरे जलमहलस्य पाल्यां आयोजिते राज्यस्तरीये स्वच्छताजागरूकता श्रमदानकार्यक्रमे सहभागीभूत्वा स्वच्छस्वस्थराजस्थानस्य सन्देशं दत्तवान्। मुख्यमन्त्री स्वयमेव श्रमदानं कृत्वा पौधारोपणं च कृत्वा सामान्यजनान् स्वच्छतायाः ग्रहणाय प्रेरितवान्।
अस्मिन् अवसरे सः स्वच्छतायोद्धेभ्यः पीपीई किट् वितरितवान् तथा चयनितेभ्यः लाभार्थिभ्यः प्रधानमन्त्री स्वनिधि योजनायाḥ चेक् अपि प्रदत्तवान्। तदनन्तरं मुख्यमन्त्री नगरनिगमस्य मार्गमार्जनयन्त्रं हरितध्वजं दर्शयित्वा प्रेषितवान् तथा सिंगल यूज प्लास्टिक मुक्त नगराणां कार्यान्वयनयोजनाविषयक पुस्तिकायाḥ विमोचनं कृतवान्।
कार्यक्रमकाले मुख्यमन्त्री उपस्थितं जनसमूहं स्वच्छतायाḥ शपथं ग्राहयन् अवदत् यत् स्वच्छता केवलं सरकारी अभियानं न भवति, अपि तु प्रत्येकनागरिकस्य कर्तव्यं भवति। सः अपि अवदत् यत् स्वच्छा नगराणि एव स्वस्थसमाजस्य सुदृढार्थव्यवस्थायाḥ च आधारं निर्मान्ति।
अस्मिन् अवसरे सांसद् मंजू शर्मा, विधायकौ गोपाल शर्मा बालमुकुन्दाचार्यश्च, मुख्यसचिवः वी श्रीनिवासः सहितं जनप्रतिनिधयः सम्बन्धितविभागानां अधिकारीणश्च उपस्थिताः आसन्।
एतस्मात् कार्यक्रमात् अनन्तरं मुख्यमन्त्री भजनलाल शर्मा रविवासरप्रातः जयपुरस्य चौडा रास्ता क्षेत्रं गतवान्, यत्र सः एकस्मिन् स्थानीयदुकाने चायायाः आस्वादं कृतवान्। तस्मिन् काले सः सामान्यजनैः विक्रेतृभिश्च सह स्नेहपूर्वकं संवादं कृत्वा तेषां समस्याः श्रुतवान्। डिजिटल् इण्डिया अभियानं प्रोत्साहयन् सः यूपीआई माध्यमेन चायायाः मूल्यं दत्तवान्। मुख्यमन्त्रिणः एषः सरलतापूर्णः आचारः सामान्यजनमध्ये विशेषचर्चाविषयः अभवत्।
---------------
हिन्दुस्थान समाचार