मध्यप्रदेशे मुख्यमंत्रीः डॉ. यादवः अद्य इन्दौरप्रवासे भविष्यति, विकासकार्याणां समीक्षां करिष्यति
इंदौरम्, 14 दिसम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्रीः डॉ. मोहन यादवः अद्य रविवासरे इन्दौर-नगरस्य एकदिवसीय-प्रवासे भविष्यति। सः अत्र विविधेषु कार्यक्रमेषु भागं ग्रहीष्यति, तथा इन्दौर-जनपदस्य विकास-कार्याणां समीक्षामपि करिष्यति। इन्दौर-जनपदस्य
सीएम मोहन यादव (फाइल फोटो)


इंदौरम्, 14 दिसम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्रीः डॉ. मोहन यादवः अद्य रविवासरे इन्दौर-नगरस्य एकदिवसीय-प्रवासे भविष्यति। सः अत्र विविधेषु कार्यक्रमेषु भागं ग्रहीष्यति, तथा इन्दौर-जनपदस्य विकास-कार्याणां समीक्षामपि करिष्यति। इन्दौर-जनपदस्य जिलाधिकारीः शिवम् वर्मा अवदत् यत् मुख्यमंत्रीः डॉ. यादवः इन्दौर-प्रवासकाले अनेके कार्यक्रमाः प्रस्ताविताः सन्ति। एतेषु मुख्यतया इन्दौर-नगरे एका सभापि भविष्यति, यस्याम् मुख्यमंत्रीः डॉ. यादवः नगरस्य विकास-कार्याणां समीक्षां करिष्यति। अस्य सह एव एम्-वाई-चिकित्सालयस्य नवीन-भवनस्य भूमिपूजनं तथा कृषकाणां जैविक-महोत्सवे मुख्यमंत्रीः भागं ग्रहीष्यति।

मुख्यमंत्री इन्दौर-नगरे प्रचलमानस्य मेट्रो-रेल्-निगमस्य विकास-कार्याणां समीक्षामपि करिष्यति। अस्यार्थं मेट्रो-रेल्-निगमेण उन्नत (एलिवेटेड) तथा भूमिगत (अण्डरग्राउण्ड) निर्माण-कार्येषु विस्तृता प्रस्तुति (प्रेज़ेण्टेशन) सिद्धा कृता अस्ति। अस्यां सभायां मेट्रो-सम्बद्धानि अनेकानि महत्त्वपूर्णानि निर्णयानि सम्भाव्यन्ते। मुख्यतया भूमिगत-मेट्रोस्य नूतन-मार्गे मुख्यमंत्रीः सम्मतिं दातुं शक्नोति, येन पश्चात् खजराना-स्थानात् विमानपत्तनं यावत् मेट्रो-पथस्य निर्माणं भूमिगत-रूपेण भविष्यति। सभायां वर्धितव्ययस्य राज्य-सर्वकारेण वहन-सम्बद्धे विषयेषु अपि चर्चा भविष्यति। तदनन्तरं नूतनस्य उन्नतपथस्य सामान्यनागरिकेभ्यः कदा उद्घाटनं क्रियेत, इति विषयेऽपि निर्णयः गृहीतुं शक्यते।

सूत्रानुसारं मेट्रो-परियोजनायां परिवर्तन-प्रस्तावः मेट्रो-रेल्-निगमस्य माध्यमेन नगरीयप्रशासनमन्त्री कैलाशविजयवर्गीयेन प्रस्तूयिष्यते। सभायां जनप्रतिनिधीनां सम्मतौ प्राप्तायां मुख्यमंत्रीः डॉ. मोहन यादवः तं प्रस्तावं अनुमोदयिष्यति। तदनन्तरं मन्त्रिपरिषद्-सभायाम् स्वीकृतौ प्राप्तायां प्रस्तावः केन्द्रसर्वकाराय प्रेषयिष्यते। केन्द्रसर्वकारस्य अनुमोदनानन्तरमेव मेट्रो-रेल्-निगमः अग्रिमं कार्यं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता