Enter your Email Address to subscribe to our newsletters

रायपुरम्, 14 दिसंबरमासः (हि.स.)।छत्तीसगढ विधानसभायाः शीतकालीनं सत्रं अद्य रविवासरे नवरायपुरे नवनिर्मिते विधानसभाभवने आरब्धम्। कांग्रेस दलः प्रथमदिने कार्यवाहीं बहिष्कृतवान्। सत्रस्य आरम्भः विधानसभाध्यक्षस्य डॉ रमनसिंहस्य पञ्चविंशतिवर्षीयायाः यात्रायाः उल्लेखेन अभवत्।
सत्रारम्भात् पूर्वमेव कांग्रेस दलः सदने चर्चायाः बहिष्कारं कृतवान्। कांग्रेसस्य बहिष्कारविषये भाजपाया वरिष्ठविधायकः धर्मजीतसिंहः अवदत् यत् विपक्षः सदनस्य बहिष्कारं कृत्वा अवमाननां कृतवान्। ये बहिष्कारं कुर्वन्ति तान् जनतापि एवंविधेनैव बहिष्करोति।
तथैव मन्त्री ओ पी चौधरी अपि पुनरुक्तवान् यत् विपक्षः सदनस्य बहिष्कारं कृत्वा अवमाननां कृतवान्। एषः बहिष्कारः तादृश एव यथा सेंट्रल विस्टा विषयकः विपक्षस्य बहिष्कारः आसीत्। बहिष्कारकारिणः जनतया सदा एवंविधेनैव बहिः स्थाप्यन्ते।
---------------
हिन्दुस्थान समाचार