Enter your Email Address to subscribe to our newsletters

नवदेहली, 14 दिसंबरमासः (हि.स.)। राष्ट्रीय-ऊर्जा-संरक्षण-दिवसस्य अवसरः प्राप्ते सति दिल्ली-मेट्रो-रेल्-निगमः (डीएमआरसी) महत्त्वपूर्णां उपलब्धिं प्राप्तवान्। पिंक-रेखायां स्थितं ईस्ट-विनोद-नगर्-मेट्रो-स्थानकम् वर्ष 2025 तमे राष्ट्रीय-ऊर्जा-संरक्षण-पुरस्कार-अन्तर्गतं मेट्रो-स्थानक-श्रेण्यां ‘श्रेष्ठ-कार्यनिष्पादन-एकक-पुरस्कारः’ (Best Performing Unit Award) इति सम्माननेन अलङ्कृतम्। अयं प्रतिष्ठितः पुरस्कारः राष्ट्रपति-भवनस्य मार्गदर्शने विज्ञान-भवने आयोजिते कार्यक्रमे राष्ट्रपति श्रीमती द्रौपदी-मुर्मु-महाभागया प्रदत्तः। डीएमआरसी-प्रबन्ध-निदेशकः डॉ. विकास-कुमारः एतत् सम्मानं स्वीकृतवान्। अयं पुरस्कारः ऊर्जा-दक्षता-क्षेत्रे ईस्ट-विनोद-नगर्-मेट्रो-स्थानकस्य प्रशंसनीय-प्रयासानां मान्यतारूपेण प्रदत्तः।
डीएमआरसीतः प्राप्त-सूचनानुसारं विद्युत्-मन्त्रालयस्य अधीनस्थं ऊर्जा-दक्षता-ब्यूरो (बीईई) देशव्यापि-विविध-मेट्रो-रेल्-जालात् प्राप्तानां आवेदनानां विस्तृतं मूल्याङ्कनं कृत्वा ईस्ट-विनोद-नगर्-मेट्रो-स्थानकस्य चयनं कृतवान्। गत-त्रिषु वित्तीय-वर्षेषु स्थानके विद्युत्-उपभोगस्य कुल-मात्रायां तथा ऊर्जा-कार्यनिष्पादन-सूचकाङ्के निरन्तरं उल्लेखनीयं च न्यूनतां अभिलेखितम्।
सौर-ऊर्जया 49 प्रतिशतं आवश्यकता-पूर्तिः
डीएमआरसी-पक्षतः सूचितं यत् ऊर्जा-संरक्षण-कार्यक्रमस्य अन्तर्गतं स्थानके 405 पारम्परिक-ट्यूब्-लाइट्-फिटिङ्ग्-स्थाने एलईडी-दीपाः स्थापिताः सन्ति। तदतिरिक्तं स्थानके 150 किलोवाट्-पीक्-क्षमतायुक्तः रूफ्-टॉप्-सौर-विद्युत्-संयन्त्रः स्थापितः, येन स्थानकस्य कुल-ऊर्जा-आवश्यकतायाः प्रायः 49 प्रतिशतं भागं सौर-ऊर्जया पूर्यते। अनेन ग्रिड्-विद्युत्-आश्रयतायां महती न्यूनता जाता अस्ति। तदतिरिक्तं ईस्ट-विनोद-नगर्-मेट्रो-स्थानकं भारतीय-उद्योग-परिसङ्घस्य अन्तर्गतं इंडियन-ग्रीन्-बिल्डिङ्ग्-काउन्सिल् संस्थया ‘प्लैटिनम्’ श्रेणी-मान्यतां अपि प्राप्तवत्। एषा मान्यता पर्यावरण-संरक्षणे तथा सतत-विकासे स्थानकस्य दृढ-प्रतिबद्धतां सूचयति।
डीएमआरसी-पक्षतः उक्तं यत् एतत् सम्मानं ऊर्जा-उपभोग-न्यूनिकरणे, सौर-ऊर्जा-प्रोत्साहने तथा पर्यावरण-अनुकूलनगरीयपरिवहनस्य संवर्धने तस्य निरन्तरप्रयासानां औपचारिकस्वीकृतिरूपेण दृश्यते।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani