Enter your Email Address to subscribe to our newsletters

धमतरी, 14 दिसंबरमासः (हि.स.)।
जिल्लायां सार्वजनिकवितरणप्रणाल्याः अन्तर्गतं खाद्यान्नवितरणं पारदर्शकं सुचारुं च कर्तुं राज्यशासनेन एकं राष्ट्रं एकं राशनकार्डम् इति योजनायाः अधीनं आधारप्रमाणीकरणेन राशनवितरणं क्रियते। अस्यैव क्रमस्य अनुषङ्गेण जिला खाद्यधिकारीणां द्वारा जिलेस्थान् शेषान् राशनकार्डधारीसदस्यान् शीघ्रं ई के वाय सी प्रक्रियां पूर्णीकर्तुं अपील कृता अस्ति।
जिला खाद्यविभागात् प्राप्तसूचनानुसारं धमतरी-जिले अद्यतनकाले द्विलक्ष षष्टिसहस्र चारशतानि एकषष्टिश्च (2,60,461) राशनकार्डानि प्रचलितानि सन्ति। एतेषु द्विलक्ष पञ्चत्रिंशत्सहस्र चतुश्शतानि एकोननवतिश्च (2,35,489) बी पी एल राशनकार्डानि तथा चतुर्विंशत्सहस्र नवशतानि द्वासप्ततिश्च (24,972) ए पी एल राशनकार्डानि सन्ति। एतेषु राशनकार्डेषु पञ्चवर्षाधिकवयस्कानां कुलं अष्टलक्ष सप्तदशसहस्र सप्तषष्टिश्च (8,17,067) सदस्याणां नामानि अङ्कितानि सन्ति। एतेषु अद्यावधि सप्तलक्ष त्रिषष्टिसहस्र अष्टशतानि चतुर्नवतिश्च (7,63,894) सदस्याणां ई के वाय सी प्रक्रिया सम्पूर्णा अभवत्, किन्तु त्रिपञ्चाशत्सहस्र एकशत त्रिसप्ततिश्च (53,173) सदस्याणां ई के वाय सी अद्यापि शेषा अस्ति।
खाद्यविभागेन स्पष्टतया सूचितं यत् जिलेस्थासु सर्वासु शासकीयसु उचितमूल्यदुकानेषु ई पॉस यन्त्रैः ई के वाय सी सुविधा उपलब्धा अस्ति। राशनकार्डधारिणः केनापि कार्यदिवसे स्वीयां उचितमूल्यदुकानां गत्वा शेषसदस्यानां ई के वाय सी सहजतया कारयितुं शक्नुवन्ति। विभागेन चेतावनी अपि दत्ता यत् यदि समये ई के वाय सी न कारिता भविष्यति तर्हि आगामिषु मासेषु राशनप्राप्तौ कठिनता उत्पद्येत।
उल्लेखनीयं यत् राज्यशासनस्य खाद्यवितरणयोजनायाः अन्तर्गतं जिलेस्थानां हितग्राहिणां कृते ए पी एल बी पी एल अन्त्योदय-राशनकार्डैः प्रतिमासं रियायतीदरेण तण्डुलः शर्करा मृत्तिकातैलं च अन्यानि आवश्यकवस्तूनि प्रदीयन्ते। एतत् वितरणं सहकारीसमितीनां तथा शासकीयानां उचितमूल्यदुकानां माध्यमेन क्रियते। खाद्यविभागीयाः अधिकारिणः वदन्ति यत् ई के वाय सी प्रक्रियया असत्यनाम्नां अपात्रनाम्नां च परिचयः लाभग्राहिणां यथार्थसत्यापनं तथा खाद्यवितरणप्रणाल्यां पारदर्शिता सुनिश्चितं भविष्यति।
अन्ते विभागेन सर्वेभ्यः राशनकार्डधारिभ्यः आह्वानं कृतं यत् ते स्वपरिवारस्य शेषसदस्यानां ई के वाय सी शीघ्रं पूर्णीकृत्य शासनयोजनानां निर्बाधं लाभं प्राप्नुवन्तु।
हिन्दुस्थान समाचार