Enter your Email Address to subscribe to our newsletters

जयपुरम्, 14 दिसंबरमासः (हि.स.)।
भारतसरकारस्य आयुषमन्त्रालयेन विश्वस्वास्थ्यसंगठनेन च संयुक्ततत्त्वावधानेन सप्तदशदिने आरभ्य एकोनविंशतितमे दिने दिसम्बरमासे द्विसहस्रपञ्चविंशतितमे वर्षे नवदिल्लीस्थिते भारतमण्डपमे वैश्विकशिखरसमागमः आयोज्यते। अयं शिखरसमागमः वैज्ञानिकसत्यापनं, अङ्कीयस्वास्थ्यव्यवस्था, जैवविविधतासंरक्षणं तथा पारम्परिकचिकित्सायां वैश्विकसहकार्यस्य सुदृढीकरणं च केन्द्रे कृत्वा आयोजितः अस्ति।
अस्य वैश्विकशिखरसमागमस्य शुभारम्भः केन्द्रीयायुषराज्यमन्त्रीणा स्वतन्त्रप्रभारयुक्तेन प्रतापरावजाधवमहोदयेन करिष्यते, समापनसमारोहस्य अवसरः भारतदेशस्य प्रधानमन्त्री नरेन्द्रमोदीमहोदयस्य उपस्थित्या अलङ्कृतो भविष्यतीति सम्भावना वर्तते। राष्ट्रीयआयुर्वेदसंस्थानस्य जयपुरनगरस्थितस्य कुलपतिः प्रोफेसरः संजीवशर्मा अवदत् यत् अस्य वर्षस्य शिखरसमागमस्य मुख्यविषयः “सन्तुलनस्य पुनःस्थापनम् स्वास्थ्यकल्याणयोः विज्ञानं व्यवहारश्च” इति निश्चितः अस्ति।
अस्मिन् वैश्विककार्यक्रमे विश्वस्य त्रयोदशाधिकशतदेशेभ्यः आगताः मन्त्रीणः नीतिनिर्मातारः स्वास्थ्यविशेषज्ञाः शोधकर्तारः उद्योगप्रतिनिधयः चिकित्सकाश्च सहभागं करिष्यन्ति। सः अवदत् यत् अस्मिन् ऐतिहासिके शिखरसमागमे राष्ट्रियआयुर्वेदसंस्थानस्य जयपुरनगरस्य चिकित्सकानां दलः अपि सहभागी भविष्यति, यः विश्वस्य विविधदेशेभ्यः आगतान् प्रतिनिधीन् प्रति संस्थानेन निर्मितानां आयुषउत्पादानां उपयोगितां वैज्ञानिकदृष्टिकोनं च विस्तरेण अवगमयिष्यति।
कार्यक्रमस्य समये केन्द्रीयायुषराज्यमन्त्री प्रतापरावजाधवमहोदयेन घोषणा कृता यत् आयुषमन्त्रालयेन भारतदेशस्य विश्वप्रसिद्धे वैज्ञानिकरूपेण प्रमाणिते औषधीयवृक्षे अश्वगन्धायां विशेषसत्रम् आयोजयिष्यते। अस्मिन् सत्रे पारम्परिकचिकित्सापद्धतीनां आधुनिकस्वास्थ्यप्रणालीनां च सन्दर्भे अश्वगन्धायाः प्रभावः उपयोगिता च विषयीकृत्य विशेषज्ञैः स्वविचाराः प्रस्तूयन्ते।
त्रयोदशाधिकशतदेशानां सहभागितया सह अयं शिखरसमागमः पारम्परिकपूरकएकीकृतस्वदेशीचिकित्सापद्धतीनां राष्ट्रियस्वास्थ्यप्रणालीषु प्रमाणाधारितं न्यायसंगतं सततं च एकीकरणं कर्तुं दशकपर्यन्तव्यापिनीं वैश्विकरूपरेखां निर्धारयिष्यति। शिखरसमागमस्य विशेषविचारविमर्शान्तर्गतं “अश्वगन्धा पारम्परिकज्ञानात् वैश्विकप्रभावपर्यन्तम्” इति विषये अग्रणीवैश्विकविशेषज्ञानां दृष्टिकोणः नाम विशेषसत्रं सप्तदशदिने आरभ्य एकोनविंशतितमे दिने दिसम्बरमासे द्विसहस्रपञ्चविंशतितमे वर्षे आयोज्यते।
विश्वस्वास्थ्यसंगठनस्य जीटीएमसी संस्थया आयुषमन्त्रालयस्य सहयोगेन आयोजिते अस्मिन् कार्यक्रमे विश्वप्रसिद्धाः शोधकर्तारः नीतिनिर्मातारः चिकित्सकाश्च अश्वगन्धायाः एडाप्टोजेनिक न्यूरोप्रोटेक्टिव इम्यूनोमॉड्यूलेटरी गुणानां विषये उपलब्धेषु नवीनतमेषु वैज्ञानिकेषु प्रमाणेषु विस्तृतं विचारविमर्शं करिष्यन्ति।
---------------
हिन्दुस्थान समाचार