Enter your Email Address to subscribe to our newsletters



- मध्यप्रदेश-प्रेस-क्लबस्य त्रयस्त्रिंशत्तमः स्थापना-वर्ष-समारोहः सम्पन्नः
भोपालम्, 14 दिसंबरमासः (हि.स.)। उच्चतमन्यायालयस्य पूर्व वरिष्ठन्यायाधीशः सुधीर अग्रवालः अवदत् यत् यदि वयं वास्तवतः देशस्य समाजस्य च विकासस्य विषयं चिन्तयामः, तर्हि दरिद्रस्य सामान्यनागरिकस्य च कृते सुशिक्षा, उत्कृष्टाः स्वास्थ्यसेवाः तथा शीघ्रं न्यायप्रदानं सुनिश्चितं कर्तव्यम्। एषैव स्वस्थस्य विकसितस्य च समाजस्य आधारशिला अस्ति।पूर्व वरिष्ठन्यायाधीशः अग्रवालः अवदत् यत् देशस्य सवा शतकोट्यधिकजनसंख्यायाः कृते एकेनैव उच्चतमन्यायालयेन समये न्यायप्राप्तिः व्यावहारिकी नास्ति। आवश्यकताऽस्ति यत् देशस्य चतुर्षु दिशासु प्रमुखेषु राज्येषु च उच्चतमन्यायालयस्य अधिकाः पीठिकाः (बेंचाः) स्थाप्येरन्। सः रविवासरे राजधानी भोपालस्य रविन्द्रभवने आयोजिते मध्यप्रदेश प्रेस-क्लबस्य त्रयस्त्रिंशत्तमस्थापनावर्षसमारोहं सम्बोधितवान्।समाजस्य दिशानिर्देशनाय पत्रकारितायाḥ साहित्यस्य च संयुक्तां भूमिकां रेखाङ्कयन् मध्यप्रदेश प्रेस-क्लबस्य त्रयस्त्रिंशत्तमस्थापनावर्षसमारोहः गरिमामये वातावरणे सम्पन्नः। अस्मिन् अवसरि आयोजितः ‘मध्यप्रदेश रत्न अलङ्करणसमारोहः–२०२५’ न केवलं प्रदेशस्य प्रतिभानां सम्मानस्य साक्षी अभवत्, अपि तु सामाजिकसरोकारेषु, न्याये, शिक्षायां, स्वास्थ्ये च मूलभूतप्रश्नेषु गम्भीरविमर्शस्य अपि मञ्चः अभवत्।अयोध्यायां श्रीरामजन्मभूमिविवादे ऐतिहासिकनिर्णयं दत्तवान् पूर्व वरिष्ठन्यायाधीशः अग्रवालः समारोहमध्ये शिक्षाव्यवस्थायां स्वास्थ्यव्यवस्थायां च चिन्तां व्यक्तवान्। सः अवदत् यत् अद्य सम्पन्नवर्गः स्वबालकान् सर्वकारीयविद्यालयेषु पठयितुं सर्वकारीयचिकित्सालयेषु च उपचारं कर्तुं न इच्छति, यतः तत्र व्यवस्थायाः सुविधानां च अभावः दृश्यते। यदि शासनाधिकारी, जनप्रतिनिधयः अन्ये च उत्तरदायिनः जनाः स्वयम् अथवा स्वपरिवारजनान् एतेषु संस्थासु प्रेषयेयुः, तर्हि वास्तविकस्थितेः परिचयः भविष्यति तथा व्यवस्थासुधारस्य दिशायां ठोसाः पहलाः सम्भविष्यन्ति। सः अवदत् यत् उत्तरदायिभिः जनैः स्वबालकानां शिक्षां उपचारं च अनिवार्यतया सर्वकारीयसंस्थास्वेव कर्तव्यम्।समानन्यायः सर्वेभ्यःपूर्व वरिष्ठन्यायाधीशः अग्रवालः स्पष्टशब्दैः अवदत् यत् अद्य देशे सामान्यजनः न्यायस्य कृते भ्रमति। देशस्य न्यायालयेषु प्रायः साढे पञ्चकोटि वादाः प्रलम्बिताः सन्ति। सम्पन्नवर्गस्य प्रकरणेषु न्यायालयानि रात्रौ अपि उद्घाट्यन्ते तथा शीघ्रश्रवणं भवति, किन्तु सामान्यजनः आरक्षकस्थाने अपि प्रतिवेदनं पञ्जीकर्तुं संघर्षं करोति। एषा स्थितिः समानन्यायभावनायाः विरुद्धा अस्ति। सः अवदत् यत् देशे एतादृशी व्यवस्था भवितव्या, यत्र प्रत्येकः नागरिकः समानं सरलम् शीघ्रं च न्यायं प्राप्नुयात्।समाजे चेतनां सञ्चारयति पत्रकारिता : नरेन्द्रसिंह तोमरःमध्यप्रदेश विधानसभायाः अध्यक्षः नरेन्द्रसिंह तोमरः समारोहमध्ये अवदत् यत् पत्रकारिता साहित्यं च उभयमपि समाजस्य चेतनां दिशां च ददाति। अतः अस्मिन् क्षेत्रे संलग्नानां जनानां उत्तरदायित्वं अधिकं भवति। सः अवदत् यत् अद्य प्रायः सर्वेषु क्षेत्रेषु कस्यचित् न कस्यचित् रूपेण ‘अवमूल्यनम्’ दृश्यते; एतादृशे काले मध्यप्रदेश प्रेस-क्लब इव संस्थानां भूमिका अधिकं महत्त्वं धारयति।तोमरः प्रदेशस्य मानं वर्धयन्तीनां विभूतिनां सम्मानपरम्परां प्रशंसन् अवदत् यत् एतादृशैः आयोजनैः नवपीढी प्रेरणां प्राप्नोति। सः सूचयामास यत् भविष्ये एषः समारोहः कस्यचित् शिक्षणसंस्थानस्य सहयोगेन तस्य परिसर एव आयोज्येत, येन विद्यार्थी प्रत्यक्षं एताभिः विभूतिभिः संवादं कृत्वा प्रेरणां गृह्णीयुः। सः अवदत् यत् एतेषां विशिष्टव्यक्तित्वानां सम्माननेन स्वयमपि गौरवमनुभवति। सः पत्रकारहिते क्लबेन क्रियमाणानां प्रयत्नानां अपि प्रशंसां कृतवान्।भाषिकमर्यादायाḥ सांस्कृतिकगरिमायाः च रक्षणे माध्यमानां भूमिकाकार्यक्रमे विशेषरूपेण उपस्थितः पञ्चदशनाम जूना-अखाडायाः महामण्डलेश्वरः ध्यानश्री स्वामी शैलेशानन्द गिरि महाराजः अवदत् यत् अद्य समाजे भाषिक-असहिष्णुता वर्धते। अस्याः मर्यादायाः रक्षणे माध्यमानि महत्त्वपूर्णां भूमिकां निर्वहन्ति, तथा तद् दायित्वं तैः अवश्यं निर्वहणीयम्। सः अवदत् यत् आचरणे आवरणे च भेदः न भवेत्। महाराजश्रीः एतस्मिन्नपि विषये चिन्तां व्यक्तवान् यत् अद्य तीर्थस्थानानि पर्यटनस्थलरूपेण दृश्यन्ते, किन्तु तीर्थाटनस्य पर्यटनस्य च भेदः अवगन्तव्यः। तीर्थानां गरिमायाḥ पवित्रतायाः च संरक्षणं समाजस्य सामूहिकं दायित्वम् अस्ति।स्वस्यबहुआयामजीवनानुभवान् सार्वजनिककुर्वन् सः अवदत् यत् मध्यप्रदेशस्य मृत्तिका तस्य जीवनं पुनःपुनः नवं स्वरूपं दत्तवती। सः मध्यप्रदेश प्रेस-क्लबस्य कार्याणि प्रशंसन् अवदत् यत् प्रदेशस्य गौरवं वर्धयन्तीनां विभूतिनां सम्माननं वास्तवतः गौरवविषयः अस्ति।सामाजिकदायित्वं निर्वहति मध्यप्रदेश प्रेस-क्लबःकार्यक्रमस्य आरम्भे मध्यप्रदेश प्रेस-क्लबस्य अध्यक्षः डॉ. नवीन आनन्द जोशीः क्लबस्य क्रियाकलापानां उद्देश्यानां च विस्तृतां जानकारीं दत्तवान्। सः अवदत् यत् मध्यप्रदेश प्रेस-क्लबः प्रतिवर्षं तान् विभूतिनः सम्मानयति ये स्वेन अथकपरिश्रमेण प्रतिभया समर्पणेन च प्रदेशस्य नाम राष्ट्रिये अन्ताराष्ट्रियस्तरे च गौरवान्वितवन्तः। अस्य पृष्ठे क्लबस्य अभिप्रायः समाजप्रति कृतज्ञतां व्यक्तुं सामाजिकदायित्वस्य निर्वहणं च कर्तुम् अस्ति।एताः विभूतयः सम्मानिताःसमारोहमध्ये देशे विदेशेषु च मध्यप्रदेशस्य गौरवं वर्धयन्तीनां विभूतिनां ‘मध्यप्रदेश रत्न’ तथा ‘मध्यप्रदेश श्री’ इति सम्मानाभ्यां अलङ्करणं कृतम्। उभयोः श्रेण्योः नव-नव विशिष्टव्यक्तित्वानि सम्मानितानि। ‘मध्यप्रदेश रत्न’ सम्मानितेषु अन्तर्राष्ट्रिय क्रिकेट-टीकाकारः पद्मश्री सुशील दोषी, विश्वविख्याता शास्त्रीयगायिका कलापिनी कोमकली, वरिष्ठपत्रकारः जयदीप कर्णिक, ‘वन शॉट मूवी’ देहली–२०२० इत्यस्य निर्माता-निर्देशकः देवेन्द्र मालवीयः, अन्तर्राष्ट्रिय फैशन-जगति परिचयप्राप्तः मुमताज़ खानः, वरिष्ठपत्रकारः दिनेश गौतमः, प्रसिद्धा नृत्याङ्गना कोरियोग्राफरः च अमृता जोशी, पत्रकारः सोनल भारद्वाजः, तथा लोकप्रियवेब-श्रृङ्खलयोः ‘कोटा फैक्ट्री’ ‘हाफ सीए’ इत्ययोः निर्देशकः प्रीतिश मेहता च अन्तर्भवन्ति।‘मध्यप्रदेश श्री’ सम्मानिताः विभूतयःएयर कमोडोरः आशुतोष चतुर्वेदी (कारगिलविजयस्य नायकः), अन्तर्राष्ट्रिय क्रिकेट-खेलिका चित्रा बाजपेई (विक्रम-अवॉर्डी), प्रो. संजयद्विवेदी (पूर्व महानिदेशकः, भारतीयजनसञ्चारसंस्थानम्, नवदिल्ली), नीतादीपवाजपेई (महिला सशक्तीकरण ब्राण्ड-एम्बेसडर), पूनमचौकसे (एलएनसीटी विश्वविद्यालयः), ऋषिराजसिंहसिसोदिया (निर्देशकः, इफको, नवदिल्ली), विख्याता चित्रकारा सुलेखा गुर्जर, प्रख्यातः आयुर्वेदाचार्यः डॉ. शिवदयाल बर्डे, तथा अभिषेक गोयलः (ग्लोबल स्कॉलर) इत्येताः विभूतयः ‘मध्यप्रदेश श्री’ सम्मानाभ्यां अलङ्कृताः।____________
हिन्दुस्थान समाचार / अंशु गुप्ता