Enter your Email Address to subscribe to our newsletters

खड़गपुरम्, 14 दिसंबरमासः (हि. स.)। दक्षिण-पूर्व रेल्वे-खण्डे खड़गपुर-मण्डले खंटापाड़ा-स्टेशन-यार्डे नव-रचना (रिमॉडलिंग)कर्मणात् केचन रेलयानानाम् संचालनं अस्थायी रूपेण परिवर्तितं कृतम्। रेल्वे-प्रशासनस्य सूचनानुसार कर्मकालस्य मध्ये यात्रिणां सुरक्षा च सुविधा च दृष्ट्वा एष निर्णयः स्वीकृतः।
रेल्वे द्वारा जारी सूचना अनुसार — 68407/68408 बालेश्वर–भुवनेश्वर–बालेश्वर मेमू १६ दिसम्बर २०२५ आरभ्य २८ दिसम्बर २०२५ पर्यन्तं रद्धा भविष्यति। एवं 68052/68051 भद्रक–बालेश्वर–भद्रक मेमू २१ दिसम्बर २०२५ आरभ्य ३० दिसम्बर २०२५ पर्यन्तं रद्धा भविष्यति। अन्यत् 18037/18038 खड़गपुर–जाजपुरम् केओंझार रोड–खड़गपुर एक्सप्रेस २४ दिसम्बर २०२५ न सञ्चरिष्यति।
साथैव 68049/68050 खड़गपुर–भद्रक–खड़गपुर मेमू २१ दिसम्बर २०२५ आरभ्य ३० दिसम्बर २०२५ पर्यन्तं आंशिक-रूपेण सञ्चालितः भविष्यति। अस्य ट्रेनस्य संचालनं केवलं बालेश्वर पर्यन्तं भविष्यति, बालेश्वर–भद्रक–बालेश्वर खण्डे सेवा रद्धा भविष्यति।
रेलवे-प्रशासनं यात्रिभ्यः आवाहयति यथा यात्रा पूर्वं सम्बन्धित रेलयानानां स्थितिः अवगन्तुं प्रयत्नं कुर्वन्तु, असुविधायै च खेदं प्रकटितम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता