Enter your Email Address to subscribe to our newsletters

कोलकाता, १४ दिसम्बरमासः (हि.स.)।
युवभारतीक्रीडाङ्गणे लियोनेलमेसी इत्यस्य कार्यक्रमस्य समये जातायाः अव्यवस्थायाः तथा विध्वंसस्य विषये तृणमूलकाङ्ग्रेसपक्षस्य नेता कुणालघोषः तीव्रं प्रहारं कृतवान्। सः सामाजिकमाध्यमेषु प्रकाशितेन लेखेन स्पष्टं प्रश्नं कृतवान् यत्— क्रीडाङ्गणस्य जीर्णोद्धारस्य व्ययः सर्वकारीकोषात् किमर्थं वहनीयः भवेत्।
स्वीय लेखे कुणाल् घोषः अवदत् यत् कार्यक्रमस्य समये ये जनाः क्रीडाङ्गणस्य अन्तः मेसी-इत्यनेन सह छायाचित्राणि गृह्णन्तः स्वस्य निजीछायाचित्रणेषु व्यस्ताः आसन्, तेषां सर्वेषां परिचयः सार्वजनिकः करणीयः। सः आहूतवान् यत् सम्पूर्णकार्यक्रमस्य दृश्यचित्राणां परीक्षणं कृत्वा एषा सूची निर्मीयतां यत् ते के जनाः आसन् तथा केन अधिकारेण ते क्रीडाङ्गणस्य अन्तः उपस्थिताः अभवन्।
कुणाल् घोषः आरोपं कृतवान् यत् एतेषां जनानां कारणेन सामान्यदर्शकाः कार्यक्रमं सम्यक् रूपेण द्रष्टुं न शक्नुवन् तथा अव्यवस्था प्रसृता। सः उक्तवान् यत् दर्शकाः वञ्चिताः अभवन्, यस्य प्रत्यक्षं हानिः जनतायाः एव अभवत्।
अपि च सः अवदत् यत् क्रीडाङ्गणं प्रति जातायाः क्षतेः पूर्तिः मुख्यायोजकेन तथा तेन सम्बद्धैः उत्तरदायिभिः एव कर्तव्या, न तु सर्वकारीकोषात्। कुणाल् घोषः स्पष्टशब्दैः अवदत् यत् अस्मिन् विषये कस्यापि प्रभावशालिनः कृते किमपि विशेषानुग्रहः न दातव्यः।
तदनन्तरं सः कार्यक्रमस्य समये विध्वंसे सम्मिलितानां असामाजिकतत्त्वानां परिचयं कृत्वा तेषां अपि दण्ड-राशेः संग्रहणं कर्तुं याचनं कृतवान्। कुणाल् घोषः राज्यसर्वरकारं तथा सम्बद्धविभागान् सम्पूर्णविषयस्य निष्पक्षतया अन्वेषणं कृत्वा कठोरकार्यम् आचरितुं प्रार्थितवान्, येन भविष्ये एतादृशानां घटनानां पुनरावृत्तिः न भवेत् तथा सार्वजनिकसम्पत्तेः संरक्षणं सुनिश्चितं भवेत्।
हिन्दुस्थान समाचार / Dheeraj Maithani