Enter your Email Address to subscribe to our newsletters

- कुष्ठ रोगस्य उपचारः सर्वासु शासकीय स्वास्थ्य संस्थासु नि:शुल्कम्उपलब्धम्
राजनांदगांवः, 14 दिसंबरमासः (हि.स.)।
जिलायां सघनः कुष्ठपरीक्षण–अन्वेषणाभियानम् अष्टदिसम्बरदिनाङ्कात् एकत्रिंशद्दिसम्बरदिनाङ्कपर्यन्तं सञ्चाल्यते। मुख्यचिकित्सा–स्वास्थ्याधिकारी डॉ. नेतरामनवरतनः रविवासरे अवदत् यत् अस्य कुष्ठपरीक्षण–अन्वेषणाभियानस्य मुख्योद्देश्यः जिल्ले कुष्ठरोगस्य समये एव पहिचानं कृत्वा त्वरितोपचारस्य सुनिश्चितीकरणं कर्तुम् अस्ति।
मुख्यचिकित्सा–स्वास्थ्याधिकारी डॉ. नेतरामनवरतनः नागरिकान् अपीलं कृतवान् यत् सर्वेक्षणदलस्य गृहे आगमने सम्पूर्णं सहयोगं कुर्वन्तु। परिवारस्य सर्वेषां सदस्याणां परीक्षणं अवश्यं कारयन्तु, येन कुष्ठमुक्तसमाजस्य लक्ष्यं प्राप्तुं शक्यते। कुष्ठरोगः पूर्णतया उपचारयोग्यः अस्ति, स च रोगः स्पर्शेन अथवा हस्तमेलननेन न प्रसार्यते। कुष्ठरोगस्य उपचारः सर्वासु शासकीयस्वास्थ्यसंस्थासु निःशुल्करूपेण उपलब्धः अस्ति।
कुष्ठाधिकारी डॉ. अल्पनालुनिया अवदत् यत् कुष्ठपरीक्षण–अन्वेषण–अभियानस्य अन्तर्गतं जिल्ले सर्वेषु विकासखण्डेषु स्वास्थ्यविभागस्य प्रशिक्षितदलैः आरएचओ तथा मितनिनीसहितैः गृहं–गृहं गत्वा प्रत्येकव्यक्तेः परीक्षणं क्रियते। सर्वेक्षणकाले ग्रामीणक्षेत्रेषु प्रतिदिनं पञ्चदशात् विंशतिगृहाणां, नगरीयक्षेत्रेषु प्रतिदिनं विंशतितः पञ्चविंशतिगृहाणां सर्वेक्षणं भवति। अस्मिन् प्रक्रियायां कुष्ठरोगस्य शङ्कास्पदमामलान् पहिचाय प्रारम्भिकावस्थायामेव एमडीटी औषधोपचारः उपलब्धः कारयिष्यते, येन रोगप्रसारस्य प्रभावी नियन्त्रणं सम्भवति।
यदि कस्यचित् व्यक्तेः शरीरे दागैः सह सुन्नता, नाडीषु स्थूलता वा वेदना, झुनझुनाहट्, अथवा कर्णे मुखे च शोथः, स्थूलता इत्यादयः लक्षणानि दृश्यन्ते, तर्हि सा कुष्ठरोगस्य सम्भावना भवितुम् अर्हति।
---------------
हिन्दुस्थान समाचार