भारतीयजनतापक्षस्य राष्ट्रियकार्यकारी-अध्यक्षः नितिन नबीनः नियुक्तः अभवत्। नितिन नबीनः बिहारसर्वकारे मन्त्रिरूपेण कार्यं करोति
नवदेहली, 14 दिसंबरमासः (हि.स.)। भारतीयजनतापक्षेण (भाजपा) बिहारसर्वकारस्य मन्त्रिमण्डले वर्तमानं मन्त्रिणं नितिननबीनं पक्षस्य राष्ट्रीयकार्यकारी-अध्यक्षपदे नियुक्तं कृतम्। रविवासरे भाजपा-राष्ट्रीयमहासचिवेन अरुणसिंहेन निर्गत-वक्तव्ये सूचितं यत्, भाजप
भाजपा के कार्यकारी अध्यक्ष नितिन नवीन


नवदेहली, 14 दिसंबरमासः (हि.स.)। भारतीयजनतापक्षेण (भाजपा) बिहारसर्वकारस्य मन्त्रिमण्डले वर्तमानं मन्त्रिणं नितिननबीनं पक्षस्य राष्ट्रीयकार्यकारी-अध्यक्षपदे नियुक्तं कृतम्। रविवासरे भाजपा-राष्ट्रीयमहासचिवेन अरुणसिंहेन निर्गत-वक्तव्ये सूचितं यत्, भाजपा-संसदीय-मण्डलेन बिहारसर्वकारस्य मन्त्रिमण्डले मन्त्रिणं नितिननबीनं पक्षस्य राष्ट्रीयकार्यकारी-अध्यक्षपदे नियुक्तं कृतम्। उल्लेखनीयं यत्, पञ्चचत्वारिंशद्वर्षीयः नितिननबीनसिन्हा वर्तमानकाले बिहारसर्वकारे पथनिर्माणमन्त्री रूपेण कार्यं कुर्वन्ति। कायस्थसमुदायात् आगतः नितिननबीनः भाजपा-नेता नवीनकिशोरसिन्हायाः पुत्रः अस्ति। नितिननबीनः बांकीपुर-विधानसभा-निर्वाचनक्षेत्रात् चतुर्वारं विधायकरूपेण निर्वाचितः अभवत्।

रक्षामन्त्री राजनाथसिंहेन ‘एक्स’ माध्यमेन नितिननबीनाय शुभाशयाः प्रेषिताः। सः लिखितवान्—“बिहार-भूमेः आगतः युवा ऊर्जस्वी च नेता नितिननबीनः भारतीयजनतापक्षस्य कार्यकारी-अध्यक्षपदे नियुक्तः इति श्रुत्वा हार्दिकाः अभिनन्दनाः। सः कर्मठः कार्यकर्ता कल्पनाशक्तिसम्पन्नश्च अस्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिना प्रेरित-नेतृत्वेन सः भाजपा-पक्षं सफलताया नूतन-उन्नत-शिखराणि प्रति नयितुं नूनं समर्थो भविष्यति। तस्य कार्यकालस्य सफलतायै तस्मै बहु शुभाशयाः।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता