Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 14 दिसंबरमासः (हि. स.)।
राष्ट्रपतिः द्रौपदीमुर्मुः रविवासरे अवदत् यत् अस्माकं संस्कृतौ निहितं प्रकृत्या सह सामञ्जस्यं एव “पर्यावरणाय जीवनशैली” इत्यस्य वैश्विकं आधारम् अस्ति।
सा एषा वार्ता अद्य राष्ट्रीयऊर्जासंरक्षणदिवसस्य अवसरॆ उक्तवती। अस्मिन् अवसरॆ सा नूतनदिल्ली नगरे राष्ट्रीयऊर्जासंरक्षणपुरस्कारान् २०२५ तथा राष्ट्रीयचित्रकलाप्रतियोगितायाः विजेतॄन् सम्मानितवती।
राष्ट्रपतिः अवदत् यत् ऊर्जासंरक्षणं केवलं अल्पोपयोगः नास्ति, अपि तु बुद्धिमत्ता, उत्तरदायित्वं तथा कुशलतया ऊर्जायाः उपयोगः आवश्यकः। सौरशक्तिः इत्यादीनि नवीकरणीयऊर्जाविकल्पान् स्वीकरणीयान् इति सा अवदत्। एतेन न केवलं ऊर्जासंरक्षणं भवति, अपि तु कार्बनउत्सर्जनमपि न्यूनीभवति।
राष्ट्रपतिः अवदत् यत् ऊर्जासंरक्षणविषये युवानां बालानां च जागरूकता वर्धनीया। एतेन ऊर्जासंरक्षणलक्ष्यस्य प्राप्तिः सह देशस्य सततविकासः अपि सुनिश्चितः भवति।
सा अवदत् यत् “सूर्यघरयोजना” तथा “हरितहाइड्रोजनमिशन” इत्यादयः शासकीयप्रयासाः जीवाश्मईन्धनेषु अस्माकं निर्भरता न्यूनीकर्तुं सहायकाḥ सन्ति। संवत्सरे २०२३–२४ मध्ये सरकारेण या ऊर्जा संरक्षिता, सा ५.३६ कोटि टन तेलस्य तुल्या अस्ति। एतेन देशस्य धनस्य रक्षणं जातं, प्रदूषणमपि न्यूनीभूतम्।
राष्ट्रपतिः विशेषतया अवदत् यत् ऊर्जापरिवर्तनस्य सफलतायै नागरिकानां व्यवहारपरिवर्तनं अत्यावश्यकम् अस्ति। सा विश्वासं प्रकटितवती यत् जनभागीदारीया तथा सामूहिकउत्तरदायित्वेन भारतः ऊर्जासंरक्षणे अग्रणी भविष्यति तथा हरितभविष्यस्य लक्ष्याणि साधयिष्यति।
---------------
हिन्दुस्थान समाचार