Enter your Email Address to subscribe to our newsletters

चंडीगढ़म्, 14 दिसंबरमासः (हि.स.)।पञ्जाबराज्ये अद्य रविवासरे जिला परिषद् तथा ब्लॉक समिति निर्वाचनाय मतदानप्रक्रिया सुचारुरूपेण प्रवर्तते। मतदानप्रक्रिया सायं चतुर्वादनपर्यन्तं प्रवर्तिष्यते। पञ्चायतीराजसंस्थासम्बद्धस्य अस्य निर्वाचनस्य कृते ईवीएमस्य स्थाने बैलेटपत्रैः मतदानं क्रियते।
पञ्जाबस्य सीमावर्ती जनपदेषु घनं कुहिरं व्याप्तम् अस्ति। तथापि ग्रामीणप्रदेशस्य मतदातारः मतदानं कर्तुं मतदानकेन्द्रेषु आगच्छन्ति। राज्ये 347 जिला परिषद् स्थानानां तथा 2838 ब्लॉक समिति स्थानानां कृते समग्रेण 9775 प्रत्याशिनः निर्वाचनरणे स्थिताः सन्ति।
राज्य निर्वाचन आयोगः निर्वाचनप्रक्रियायाः सुव्यवस्थितसमापनार्थं पुलिस् तथा सिविल प्रशासनस्य प्रायः एकलक्षं कर्मचारिणः नियुक्तवान् अस्ति। अस्मिन् निर्वाचने सत्तारूढा आम आदमी पार्टी, शिरोमणि अकाली दलः, कांग्रेस्, भारतीयजनतापक्षः तथा बहुजन समाज पार्टी च स्वस्वनिर्वाचनचिह्नैः सह निर्वाचनं लडन्ति।
राज्य निर्वाचन आयोगेन अमृतसरजनपदस्य खासा तथा खुरमानियाँ इति स्थानेषु ब्लॉक समिति तथा जिला परिषद् निर्वाचनप्रक्रिया रद्दीकृता अस्ति, यतः तत्र द्वयोः प्रत्याशिनोः निर्वाचनचिह्नानि अशुद्धरूपेण मुद्रितानि आसन्। एतासु आसनेषु निर्वाचनघोषणा पश्चात् करिष्यते।
तथैव राज्यस्य तलवण्डी साबो स्थाने अपि एकस्मिन् मतदानकेन्द्रे प्रातःकाले प्रायः एकघण्टापर्यन्तं मतदानप्रक्रिया आरब्धुं न अशकत्। तत्र प्रत्याशिनां आग्रहात् द्वितीयं बैलेटबॉक्सं आनयित्वा ततः परं मतदानप्रक्रिया आरब्धा अभवत्।
अस्य निर्वाचनात् पूर्वमेव आम आदमी पार्टी राज्ये 340 पंचायत समिति प्रत्याशिनः निर्विरोधरूपेण निर्वाचिताः सन्ति इति दावा कृतवती अस्ति। अद्य प्रातःकाले पञ्जाबस्य वित्तमन्त्री हरपालसिंह चीमा मतदानकेन्द्राणां निरीक्षणं कृतवान्। पञ्जाबस्य कैबिनेटमन्त्री हरजोतसिंह बैन्सः च गम्भीरपुरग्रामे स्वमतं दत्तवान्।
---------------
हिन्दुस्थान समाचार