एसएसबी बगहा द्वारा सीमाएकता-धावनस्य आयोजनं कृतम्
बगहा ,14 दिसम्बरमासः (हिं.स.)। बिहार-राज्ये बगहा आरक्षक-जिला मुख्यालये शनिवासरे २१-तमी वाहिन्या सशस्त्र-सीमा-बलस्य (एसएसबी) बगहा-द्वारा “बॉर्डर् युनिटी रन” (सीमा-एकता-धावनम्) इत्यस्य भव्यं आयोजनं कृतम्। सीमा-एकता-धावनस्य अन्तर्गतं वाहिन्याः कार्यक्
Unity3


Unity2


Unity1


Unity 1


बगहा ,14 दिसम्बरमासः (हिं.स.)। बिहार-राज्ये बगहा आरक्षक-जिला मुख्यालये शनिवासरे २१-तमी वाहिन्या सशस्त्र-सीमा-बलस्य (एसएसबी) बगहा-द्वारा “बॉर्डर् युनिटी रन” (सीमा-एकता-धावनम्) इत्यस्य भव्यं आयोजनं कृतम्। सीमा-एकता-धावनस्य अन्तर्गतं वाहिन्याः कार्यक्षेत्रे ०६ स्थानेषु त्रि–त्रि किलोमीटर-मात्रकाणां धावनानां आयोजनं कृतम्, तथा च थारी-वायुपत्तन-चतुष्पथे थारीतः नदी-घाटी-परियोजना-उच्च-विद्यालयं वाल्मीकिनगरम् इत्यन्तं मेगा-कार्यक्रम-रूपेण पञ्च-किलोमीटर-मात्रकस्य धावनस्य आयोजनं कृतम्। अस्य धावनस्य प्रारम्भः पूर्व-विधायकः धीरेन्द्र-प्रताप-सिंहः हरित-ध्वजं दर्शयित्वा अकरोत्। कार्यक्रमस्य शुभारम्भः मुख्य-अतिथिना भारतसर्वकारस्य कोयला-खानराज्यमन्त्रिणा सतीशचन्द्रदुबे ईत्यनेन कृतः।

कार्यक्रमकाले मुख्य-अतिथिः स्मृति-चिह्नेन शालया च वाहिन्याः कार्यवाहक-कमाण्डेण सम्मानितः, तथैव अन्ये सम्मान्य-व्यक्तयः अपि सम्मानिताः। सशस्त्र-सीमा-बलस्य (एसएसबी) स्थापनायाः ६२ वर्षाणि पूर्णानि इति उपलक्ष्ये आयोजिते “सीमा-एकता-धावन” अवसरें मुख्य-अतिथिना सतीश-चन्द्र-दुबेना प्रतिभागिनः तथा च उपस्थितान् सीमावर्ती-युवकान्, युवतीः, स्थितं जनमानसं च सम्बोधितम्। तेन उक्तं यत्— एषः कार्यक्रमः केवलं क्रीडा-आयोजनं न, अपि तु अस्माकं सुरक्षा-बलानां समर्पण-भावनायाः, शारीरिक-सुदृढतायाः, सेवा-भावस्य तथा राष्ट्रएकतायां प्रति अगाधनिष्ठायाः प्रतीकः अस्ति।

मुख्य-अतिथिना स्थानीय-नागरिकाः जागरूकाः भवितुं, एकजुटाः स्थातुं, राष्ट्र-हिते च सदैव तत्पराः भवितुं उपदिष्टाः। मुख्य-अतिथिना सीमा-एकता-धावनस्य प्रतिभागिनः ट्रॉफी-भागीदारी-प्रमाणपत्रैः च सम्मानिताः। कार्यक्रमे प्रायः १२०० (द्वादश-शतानि) युवक-युवत्यः स्थानीय-जनमानसः तथा सशस्त्र-सीमा-बलस्य २१० जवानाः सहभागित्वं कृतवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता