Enter your Email Address to subscribe to our newsletters


जयपुरम्, 14 दिसंबरमासः (हि.स.)।
विद्याधरनगरविधानसभाक्षेत्रस्य निन्दड़-स्थले आयोज्यमानायाः जगद्गुरोः परमपूज्यस्वामीरामभद्राचार्यमहोदयस्य दिव्यायाः श्रीरामकथायाः तथा सहस्राष्टाधिककुण्डीयस्य श्रीहनुमन्महायज्ञस्य पावनायाः आयोजनपूर्वसन्ध्यायां रविवासरे कथास्थले विधिवत् भूमिपूजनं यज्ञध्वजस्थापनकार्यक्रमश्च सम्पन्नः।
अस्मिन् कार्यक्रमे उपमुख्यमन्त्री दीयाकुमारी महोदया सहभागितां कृत्वा धार्मिकानुष्ठाने भागं गृहीतवती। अस्मिन् अवसर उपमुख्यमन्त्री दीयाकुमारी अवदत् यत् भूमिपूजनकाले सम्पूर्णं वातावरणं भक्तिमयं सकारात्मकशक्त्या सनातनसंस्कृतेः आध्यात्मिकचेतनया च परिपूर्णम् आसीत्। सा विश्वासं व्यक्तवती यत् प्रभोः श्रीरामस्य पवनपुत्रस्य हनुमतः च कृपया अयं महायज्ञः श्रीरामकथा च जनजनस्य कल्याणस्य शान्तेः समृद्धेः च साधनं भविष्यति।
भूमिपूजनसमये वैदिकमन्त्रौच्चारणेन सह श्रद्धालुजनानां मध्ये विशेषः उत्साहः दृष्टः, सम्पूर्णं क्षेत्रं भक्तिरसेन परिपूर्णम् अभवत्। अस्मिन् कार्यक्रमे महन्तः योगीभावनाथमहाराजः, विधायकः बालमुकुन्दाचार्यमहाराजः, राष्ट्रियस्वयंसेवकसंघस्य प्रान्तप्रचारकः बाबूलालमहोदयः, भारतीयजनतापक्षस्य प्रदेशोपाध्यक्षः मुकेशदाधीचमहोदयः, जिलाध्यक्षः अमितगोयलमहोदयः तथा राजनशर्मा, अनिलसन्तः, राजेशताम्बी, मण्डलाध्यक्षाः, पार्षदाः, कार्यकर्तारः आयोजनसमितेः पदाधिकारिणश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार