शक्तिपीठ कामाख्या धाम प्राप्नोत् बॉलीवुडगायकः सोनूनिगमः
गुवाहाटी, 14 दिसंबरमासः (हि.स.)। बॉलीवुडस्य प्रसिद्धः पार्श्वगायकः सोनू निगमः रविवासरे प्रातःकाले शक्तिपीठे कामाख्या धाम्नि दर्शनं कृत्वा माता कामाख्यायाः आशीर्वादं अलभत। प्रातःकाले एव मन्दिरपरिसरं प्राप्ते तस्मिन् श्रद्धालूनां प्रशंसकानां च विशे
शक्तिपीठ कामाख्या धाम प्राप्नोत् बॉलीवुडगायकः सोनूनिगमः


गुवाहाटी, 14 दिसंबरमासः (हि.स.)।

बॉलीवुडस्य प्रसिद्धः पार्श्वगायकः सोनू निगमः रविवासरे प्रातःकाले शक्तिपीठे कामाख्या धाम्नि दर्शनं कृत्वा माता कामाख्यायाः आशीर्वादं अलभत। प्रातःकाले एव मन्दिरपरिसरं प्राप्ते तस्मिन् श्रद्धालूनां प्रशंसकानां च विशेषा उत्सुकता दृश्यते स्म।

मन्दिरे पूजाअर्चनायाः समये सुरक्षा व्यवस्थाः दृढतया विन्यस्ताः आसन्। सोनू निगमः शान्तभावेन दर्शनं कुर्वन् दृश्यते स्म।

उल्लेखनीयं यत् सोनू निगमः शनिवासरे असमप्रदेशं प्राप्तवान्। रविवासरे च गुवाहाटी नगरे आयोजिते एकस्मिन् सङ्गीतकार्यक्रमे सः सहभागितां करिष्यति, यस्य कारणेन तस्य प्रशंसकेषु महान् उत्साहः दृश्यते।

-------------

हिन्दुस्थान समाचार