Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 14 दिसंबरमासः (हि.स.)।रेल्वेनियुक्तिपरीक्षायाः कालखण्डे पञ्चदशदिने दिसम्बरमासात् नवमदिनं जनवरीमासपर्यन्तं देहरादून–मुरादाबादयोः मध्ये परीक्षा विशेष रेलयानस्य संचालनं करिष्यते। बिजनौर–गजरौला मार्गेण संचालितायाः अस्याः विशेष रेलयानस्य लक्सरस्थाने स्थगनं प्रदत्तम् अस्ति।
वरिष्ठ मण्डल वाणिज्य प्रबन्धकस्य आदित्य गुप्तस्य सन्दर्भेण हरिद्वार स्थानस्य अधीक्षकः दिनेश कुमारः रविवासरे अवदत् यत् आरआरबी परीक्षायाः समये मुरादाबादतः 04301–02 संख्या युक्तः विशेष रेलयानः संचालितः भविष्यति। मुरादाबादतः विशेष रेलयानः रात्रौ दशवादने प्रस्थितः सन् अमरोहा, गजरौला, मण्डी धनौरा, चान्दपुर, हल्दौर, बिजनौर, बसी किरतपुर, मौअज्जमपुर नारायण, लक्सर, ज्वालापुर तथा हरिद्वार मार्गेण गत्वा प्रातः षट् वादनं पञ्चदश निमेषाधिके देहरादूनं प्राप्स्यति।
देहरादूनतः रात्रौ सप्तवादने पञ्चाशत् निमेषाधिके प्रस्थितः सन् सः रेलयानः तेषु एव स्थानेषु गत्वा प्रातः पञ्चवादने मुरादाबादं प्राप्स्यति। मुरादाबादतः आगच्छन् रेलयानः चतुर्दश, षोडश, अष्टादश, पञ्चविंश, षड्विंश, अष्टाविंश दिसम्बरमासे तथा सप्तमे अष्टमे च जनवरीमासे संचालितः भविष्यति। देहरादूनतः तु पञ्चदश, सप्तदश, एकोनविंश, षड्विंश, सप्तविंश, नवविंश, त्रिंश दिसम्बरमासे तथा अष्टमे नवमे च जनवरीमासे रेलयानस्य संचालनं करिष्यते।
---------------
हिन्दुस्थान समाचार