Enter your Email Address to subscribe to our newsletters

जयपुरम्, 14 दिसंबरमासः (हि.स.)। राजस्थान-सर्वकारस्य द्विवर्ष-पूर्णतायाः अवसरं दृष्ट्वा रामगंज-मण्डी-विधानसभा-क्षेत्रे सरकारेण प्रवर्तितस्य सुशासन-पखवाड़ा अन्तर्गतं रथ-यात्रायाः शुभारम्भः रविवासरे ग्रामपञ्चायत-पीपल्दा-अन्तर्गतं कमलापुर-ग्रामे शिक्षाः च पञ्चायतीराजः मन्त्री मदन-दिलावरः हरित-ध्वजं दर्शयित्वा कृतवान्।
अस्मिन् अवसरे शिक्षाः-पञ्चायतीराजः मन्त्री मदन-दिलावरः ग्रामपञ्चायते बर्तन-बैंक इत्यस्य शुभारम्भं कृतवान्। स्वच्छ-राजस्थान–प्लास्टिक-मुक्त-राजस्थान अभियानस्य अन्तर्गतं विधानसभा-क्षेत्रे बर्तन-बैंकस्य आरम्भः क्रियते, येन एकोपवेश-भोजनेषु इस्पात-पात्राणां उपयोगः भविष्यति, डिस्पोजेबल-वस्तूनां प्रयोगः च निरुद्धः भविष्यति, तथा मलिनता-कचरा-प्रसारः अपि निवार्यते। मन्त्रीणाऽपि स्थानीयया वृद्धया महिलया डालिबायाः हस्तेन बर्तन-बैंकस्य उद्घाटनं कारितम्। तदनन्तरं तस्यै साफा-मालाभ्यां सत्कारः कृतः। बर्तन-बैंकस्य उद्घाटन-अवसरे सा वृद्धा महिला हर्षेण मङ्गलगानं गायन्ती पारम्परिकं नृत्यं अपि कृतवती।
सम्बोधने मन्त्री मदन-दिलावरः अवदत्— आगामी-मासस्य त्रयोविंशतितमे दिने बागेश्वर-धामस्य सन्तः आचार्यः धीरेंद्र-शास्त्री रामगंज-मण्डीं आगमिष्यति। सः २३ जनवरीतः २५ जनवरीपर्यन्तं श्रीराम-कथां करिष्यति। कथायां सर्वैः आगन्तव्यम्। अन्तिमे दिने दिव्य-दरबारः अपि भविष्यति, यत्र जनानां समस्याः समाधानं प्राप्स्यन्ति। अतः सर्वैः आगत्य आचार्य-धीरेंद्र-शास्त्रिणः आशीर्वादः प्रापणीयः।
मन्त्रीणाऽपि महिलाभ्यः अपीलः कृतः यत् कथापूर्वं २२ जनवरी-दिने विशाल-कलश-यात्रा आयोज्यते, यस्यां क्षेत्रात् एकविंशति-सहस्राधिकाः महिलाः कलशान् धारयित्वा सहभागी भविष्यन्ति। सर्वे कलशाः निःशुल्कं दास्यन्ते। कलशेषु आचार्यधीरेंद्रशास्त्रिणः तथा गौमातुः चित्राणि मुद्रितानि भविष्यन्ति। कलश-यात्रानन्तरं महिलाः स्व-गृहं कलशान् नेतुं शक्नुवन्ति।
स्वच्छता-सन्देशः —
रथ-यात्रायाः समये स्वच्छ-भारत-मिशन अन्तर्गतं नागरिक-सहभागिता-जन-जागरूकता-कार्यक्रमः आयोजितः। अत्र मन्त्री मदन-दिलावरः स्वयमेव ग्राम-मार्गेषु झाडूं प्रयोक्त्वा कचरं संगृह्य कचरा-वाहने निक्षिप्य जनान् स्वच्छतायां सहभागी कर्तुं प्रेरितवान्। अस्मिन् अवसरे उप-जिलाप्रमुखः कृष्णगोपाल-अहीरः, उप-प्रधानः स्वाति-मीणा, खण्ड-विकास-अधिकारी समय-सिंह-मीणा, पूर्व-उप-प्रधानः भगवतसिंहः, भाजपा-नेता नितिनशर्मा, बून्दी-भाजपापूर्वजिलाध्यक्षः कालूलाल-जांगिड़ः च अन्ये अधिकारी-कार्यकर्तारश्च स्वच्छता-अभियाने सहभागी अभवन्।
विकास-पुस्तिकाया विमोचनम् —एवमेव मन्त्री मदन-दिलावरः “बढ़ता राजस्थान, हमारा राजस्थान” इति विकास-पुस्तिकायाः विमोचनं कृतवान्। अस्यां पुस्तिकायां राजस्थानस्य भाजपा-सरकारेण विगत-द्विवर्षयोः कृतानां विकास-कार्याणां विवरणं दत्तम्। रथ-यात्रायां कार्यकर्तारः ग्रामवासिभ्यः पुस्तिकायाः वितरणं कुर्वन्ति।
पुस्तिकायां— पीएम सूर्य-घर-योजना अन्तर्गतं लक्षाधिक-रूफटॉप-सोलर-स्थापनम्, त्रिलक्ष-द्वात्रिंशत्-सहस्र-युवानां कौशल-विकासः, ३९,८९१ कि.मी. मार्ग-निर्माणम्, १३.०६ लक्ष-ग्रामीण-परिवाराणां नल-जल-संयोजनम्, २०,८३३ भ्रममाणानां-परिवाराणां निःशुल्क-आवासीय-पट्टानां वितरणम्, तथा द्विवर्षयोः ७.६१ लक्ष-पीएम-आवास-स्वीकृतयः इत्यादीनि विकास-कार्याणि क्रमशः उल्लिखितानि सन्ति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani