Enter your Email Address to subscribe to our newsletters

कोलकाता, १५ दिसम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य (भाजपा) राज्यसभासांसदः तथा पश्चिमबङ्गालभाजपा-अध्यक्षः शामिकभट्टाचार्यः नूतनदेहलीमध्ये केन्द्रीयगृहमन्त्रिणा अमितशाहेन सह समालोचनां कृतवान्। तस्मिन्नेव समये झारखण्डस्य राज्यसभासांसदः दीपकप्रकाशः अपि तेन सह उपस्थितः आसीत्।
शामिकभट्टाचार्यः सोमवासरे सामाजिकमाध्यमे ‘एक्स’ इत्यस्मिन् स्वीयलेखने अवदत् यत्— “झारखण्डात् मम राज्यसभासहयोगी दीपकप्रकाशः च अहं च केन्द्रीयगृहमन्त्रिणा अमितशाहेन सह पश्चिमबङ्गालझारखण्डयोः प्रचलत्सु जनसांख्यिकपरिवर्तनेषु विषये चर्चा कृतवन्तौ।”
उभौ भाजपासांसदौ केन्द्रीयगृहमन्त्रिणः समक्षे पश्चिमबङ्गालझारखण्डयोः कथितजनसांख्यिकपरिवर्तनस्य विषयं प्रस्तुतवन्तौ। एषः मेलनः एतयोः राज्ययोः जनसंख्यासम्बद्धासु चिन्तासु केन्द्रसर्वकारस्य ध्यानाकर्षणार्थं कृता।
एषः मेलनः तस्मिन् काले अभवत् यदा पश्चिमबङ्गालझारखण्डयोः जनसांख्यिकपरिवर्तनविषये राजनैतिकविवादः प्रवर्तमानः आसीत्। भाजपानेतारः अस्य विषयस्य गाम्भीर्यम् उल्लिख्य केन्द्रीयगृहमन्त्रालयस्य ध्यानम् आकर्षितवन्तः।
केन्द्रीयगृहमन्त्री अमितशाहः उभयोः सांसदयोः कथनं श्रुत्वा अस्मिन् विषये अग्रिमकार्यवाहीसम्भावनायाः विषये अपि चर्चा कृतवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता