संघस्य त्रयाणां सरसंघचालकानाम् , अटल बिहारी वाजपेयिने अलभत पूर्ण समर्थनम्
रामानुज शर्मानव दिल्ली, 15 दिसंबरमासः (हि.स.)।देशे उदारराजनीतिकविचारधारायाः पुरोधा इति प्रख्यातः पूर्वप्रधानमन्त्री “भारत–रत्न” अटलविहारीवाजपेयी स्वस्य सम्पूर्णे राजनैतिकजीवने राष्ट्रियस्वयंसेवकसंघस्य आचारविचारसंस्कारैः पूर्णतया संस्कारितः आसीत्। त
अटल जी की प्रकाशित हाेने वाली पुस्तक


रामानुज शर्मानव दिल्ली, 15 दिसंबरमासः (हि.स.)।देशे उदारराजनीतिकविचारधारायाः पुरोधा इति प्रख्यातः पूर्वप्रधानमन्त्री “भारत–रत्न” अटलविहारीवाजपेयी स्वस्य सम्पूर्णे राजनैतिकजीवने राष्ट्रियस्वयंसेवकसंघस्य आचारविचारसंस्कारैः पूर्णतया संस्कारितः आसीत्। तस्मादेव तस्मै संघस्य त्रयाणां सरसंघचालकानां वैचारिकं नैतिकं राजनैतिकं च पूर्णसमर्थनं निरन्तरं लब्धम्। एतस्मिन्नेव कारणे सः पञ्चमेन सरसंघचालकेन के.एस्. सुदर्शनेन सह आदर्शवादीविचारधारां राजनैतिकव्यवहारकौशलं च प्रति उत्पन्नान् जटिलान् मतभेदानपि संघनिष्ठया विना कस्यचित् संघर्षस्य सफलतया समन्वयितुं शक्तः अभवत्।

पूर्वप्रधानमन्त्रिणः वाजपेयिनः मीडियासलाहकारः आसीत् वरिष्ठपत्रकारः अशोकटण्डनः स्वीयायां नूतनायां पुस्तके “अटलसंस्मरण” इत्यस्यां वाजपेयेः संघेन सह सम्बन्धान् गम्भीरतया प्रस्तुतवान्। अस्यां पुस्तके एषा धारणा निराकृता भवति यत् वाजपेयिनः संघेन सह काचित् दूरी अथवा मतभेदः आसीत्। अपितु अत्र ज्ञायते यत् संघसंस्काराणां तेषु कियती गहना अमिटा च छाया आसीत्, येन तेषां राजनैतिकप्रयोगाणां संघेन मान्यता दत्ता, तस्मादेव च संघस्य राजनैतिकशाखारूपेण भारतीयजनसंघः पश्चात् भारतीयजनतापक्षः च देशस्य राजनीतौ केन्द्रीयं स्थानं प्राप्तवन्तौ।

अस्याः पुस्तकायाः विमोचनं सप्तदशे डिसेम्बरमासे देशस्य राजधानीनगर्यां केन्द्रीयमन्त्री नितिनगडकरीणः करैः भविष्यति। पुस्तके लेखकः अवदत् यत् वाजपेयीः भारतीयराजनीतेः ध्रुवतारासदृशः अस्ति, यस्य प्रभा तेजश्च अद्यापि देशं जगच्च नवीं दिशां प्रेरणां च ददाति। वाजपेयिनः उदारराष्ट्रवादं व्यावहारिकराजनीतिदृष्टिं च द्वितीयः सरसंघचालकः माधवसदाशिवरावगोलवलकरः (गुरुजी), तृतीयः सरसंघचालकः बालासाहबदेवरसः, चतुर्थः सरसंघचालकः प्रो. राजेन्द्रसिंहः (रज्जुभैया) पूर्णतया समर्थितवन्तः। एते त्रयः अपि वाजपेये संघस्य गभीरसंस्कारान् सम्यक् अवबुध्य तस्य दायित्वपूर्णता राष्ट्रहितसमर्पणं च दृष्ट्वा राजनैतिकप्रयोगेषु स्वातन्त्र्यं दत्तवन्तः। तस्मादेव सः उदारः मध्यमार्गी नेता इति व्यापकां स्वीकृतिं प्राप्तवान्।

यदा सः देशस्य प्रथमः स्वयंसेवकप्रधानमन्त्री इति रूपेण राजनीतेः शिखरे आसीत्, तदा पञ्चमेन सरसंघचालकेन के.एस्. सुदर्शनेन सह आदर्शवादीविचारधारायां राजनैतिकव्यवहारे च मतभेदाः अभवन्। तथापि वाजपेयीः स्वां वैचारिकनिष्ठां न परिवर्त्य जटिलेषु मतभेदेषु कौशलपूर्वकं सन्तुलनं धारितवान्। एतेन तस्य प्रतिमायां कश्चन दुष्प्रभावः न जातः। संघस्य आचारविचारसंस्कारान् प्रति तस्य विषये कदापि संशयभावेन कश्चन न अपश्यत्। सः सर्वग्राही राजनेता आसीत्।

ओजस्वी वक्ता, राजनैतिकयुगद्रष्टा, कुशलप्रशासकः, संवेदनशीलः कविश्च इति रूपेण अटलविहारीवाजपेयेः प्रतिमा प्रत्येकस्य भारतीयस्य मनसि अमिटं प्रभावं स्थापयति। सः राजनीतिं मानवीयगरिमा–संवाद–सहअस्तित्वस्य माध्यमं कृतवान्, यत् अद्यापि प्रासङ्गिकं वर्तते।

“संघः मां देशाय समाजाय च जीवितुं शिक्षितवान्” इति वाजपेयीः प्रायः वदति स्म। सः २७ अगस्त् २००० तमे दिने प्रधानमन्त्रीरूपेण प्रथमवारं राष्ट्रियस्वयंसेवकसंघस्य नागपुरमुख्यालयं गतवान् तथा ग्वालियरे १९३९ तमे वर्षे येन तं स्वयंसेवकं कृतवान् तं संघप्रचारकं नारायणरावतरटे इत्यनेन सह मिलितवान्। वाजपेयीः आरम्भादेव संघेन सह आत्मिकं वैचारिकं च सम्बन्धं धारितवान्। युवावस्थायां महाविद्यालये अध्ययनकाले एव सः संघशाखां गन्तुं आरब्धवान्, तत्रैव च तस्य राजनैतिकसामाजिकचेतनायाः आरम्भः अभवत्।

अटलविहारीवाजपेयेः संघेन सह सम्बन्धः केवलं संगठनात्मकः न आसीत्, अपि तु गभीरः वैचारिकः सांस्कृतिकः भावनात्मकश्च आसीत्। गुरुजीस्य विचारधारया सः अत्यन्तं प्रभावितः आसीत्, तथापि सः संघप्रचारकः न अभवत्। १९५१ तमे वर्षे भारतीयजनसंघस्य स्थापना काले संघेन अटलजीं राजनैतिकमञ्चे संगठनस्य मुखरूपेण स्थापयितुं सहयोगः कृतः।

एवमेव बालासाहबदेवरसेन सह, रज्जुभायेन सह, तथा सुदर्शनेन सह वाजपेयेः सम्बन्धाः भारतीयराजनीतेः वैचारिकसमन्वयस्य विशिष्टानि उदाहरणानि आसन्। मतभेदेष्वपि सम्मानः संवादः संयमश्च सर्वदा अवर्तन्त।

लेखकस्य मतानुसारं, केचन राजनैतिकदलाḥ मीडियासंस्थाश्च वाजपेयेः विरासतां संघात् भाजपात् च पृथक् कर्तुं प्रयत्नवन्तः, किन्तु तस्य अन्तिमयात्रायां प्रधानमन्त्रिणा नरेन्द्रमोदिना सह अन्यैः नेतृभिः दीर्घं पादयात्रा कृत्वा अर्पिता श्रद्धाञ्जलिः एतत् स्पष्टं कृतवती यत् अटलविहारीवाजपेयेः आत्मा कुत्र वसति स्म।

अशोकटण्डनः पुस्तके वदति यत् “मामपि दूरदर्शनमाध्यमेषु अटलजीविषये चर्चायै आहूतवन्तः, केचन सूत्रधाराःबलात् पुनःपुनः एतत् वक्तुं प्रयत्नवन्तः यत् अटलजेः संघेन सह गभीराः मतभेदाः आसन्। किन्तु एषा धारणा सत्येन सह न संगच्छते।”

हिन्दुस्थान समाचार