Enter your Email Address to subscribe to our newsletters

रायपुरम्, 15 दिसंबरमासः (हि.स.)।छत्तीसगढ़ विधानसभायाः शीतकालीन सत्रस्य द्वितीये दिने अद्य सोमवासरे वित्तमन्त्री ओपी चौधरी अस्मिन् वर्षे प्रथमम् अनुपूरक बजटम् प्रस्तुतं करिष्यति। अस्य विषये चर्चा तथा पारणं मङ्गलवासरे १६ दिसम्बर तिथौ भविष्यति। अद्य सदने ११ प्रतिवेदनानि पत्राणि च अपि प्रस्तुतानि करिष्यन्ते। विक्रम मण्डावी बस्तरप्रदेशे भूमाफियानां सक्रियतायाः विषये तथा शंकुतला पोर्ते स्वास्थ्यबीमा क्लेम सेटलमेंटे अनियमिततायाः विषये ध्यानाकर्षण प्रस्तावं प्रस्तुतं करिष्यन्ति।
हिन्दुस्थान समाचार