डॉ. रामविलास दास वेदांती दिवंगतः इत्येतत् एकस्य युगस्य अवसानम् : योगी आदित्यनाथः
लखनऊ,15 दिसंबरमासः (हि.स.)। श्रीरामजन्मभूमिआन्दोलनस्य प्रमुखस्तम्भः, पूर्वसांसदः, श्रीअयोध्याधामस्थितस्य वशिष्ठपीठस्य पीठाधीश्वरः च डॉ. रामविलासदासवेदान्ती महाराजस्य निधनविषये मुख्यमन्त्री योगीआदित्यनाथः उपमुख्यमन्त्री केशवप्रसादमौर्यश्च शोकं व्यक्
डॉ. रामविलास दास वेदांती


लखनऊ,15 दिसंबरमासः (हि.स.)। श्रीरामजन्मभूमिआन्दोलनस्य प्रमुखस्तम्भः, पूर्वसांसदः, श्रीअयोध्याधामस्थितस्य वशिष्ठपीठस्य पीठाधीश्वरः च डॉ. रामविलासदासवेदान्ती महाराजस्य निधनविषये मुख्यमन्त्री योगीआदित्यनाथः उपमुख्यमन्त्री केशवप्रसादमौर्यश्च शोकं व्यक्तवन्तौ।

मुख्यमन्त्री योगीआदित्यनाथः स्वस्य सामाजिकमाध्यमलेखायां अलिखत् यत् डॉ. रामविलासदासवेदान्तीमहाभागस्य गमनं एकस्य युगस्य अवसानम् इव अस्ति। धर्माय, समाजाय, राष्ट्राय च सेवासमर्पितं तस्य त्यागमयं जीवनं अस्माकं सर्वेषां कृते प्रेरणास्रोतः अस्ति। तस्य गोलोकगमनं आध्यात्मिकजगतः सनातनसंस्कृतेः च कृते अपूरणीयक्षतिः अस्ति। तस्मै विनम्राः श्रद्धाञ्जलयः। प्रभुं श्रीरामं प्रति प्रार्थना अस्ति यत् दिवंगतां पुण्यात्मानं स्वीयेषु श्रीचरणेषु स्थानं दद्यात् तथा शोकसन्तप्तानां शिष्याणाम् अनुयायिनां च एतत् अथाहं दुःखं सहनाय शक्तिं प्रदद्यात्।

उपमुख्यमन्त्री केशवप्रसादमौर्यः अपि स्वस्य सामाजिकमाध्यममञ्चे “एक्स” इत्यत्र अलिखत् यत् श्रीरामजन्मभूमिआन्दोलनस्य प्रमुखभूमिकां निर्वहन्तः विश्वहिन्दूपरिषदेः अग्रणीनेता, पूर्वसांसदः, पूज्यसन्तः च डॉ. रामविलासवेदान्ती महाराजस्य निधनसमाचारः अत्यन्तं दुःखदः अस्ति। तस्य निधनं आध्यात्मिकजगतः कृते अपूरणीयक्षतिः अस्ति। धर्मसमाजराष्ट्रसेवायै निःस्वार्थतया समर्पितं तस्य त्यागपूर्णं जीवनं अस्माकं सर्वेषां कृते सदा प्रेरणास्रोतः भविष्यति। प्रभुं श्रीरामं प्रति प्रार्थना अस्ति यत् दिवंगतां पुण्यात्मानं स्वीयेषु श्रीचरणेषु स्थानं दद्यात् तथा अस्मिन् कठिनकाले तस्य शिष्येभ्यः अनुयायिभ्यश्च धैर्यं संबलं च प्रदद्यात्।------------

हिन्दुस्थान समाचार