मुख्यमन्त्री डॉ. यादवः लौहपुरुषस्य सरदार् वल्लभभाई पटेलस्य पुण्यतिथौ श्रद्धाञ्जलिं समर्पितवान्
भाेपालम्, 15 दिसंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः लौहपुरुषस्य सरदार् वल्लभभाई पटेलस्य पुण्यतिथौ (१५ डिसम्बर्) तस्मै श्रद्धाञ्जलिं समर्पितवान्। सः भारतदेशस्य एकीकरणे पटेलमहाभागस्य योगदानं स्मृत्वा राष्ट्रस्य एकतायाḥ अखण्डताय
मुख्यमंत्री डॉ. यादव ने लौह पुरुष सरदार वल्लभभाई पटेल की पुण्यतिथि पर श्रद्धांजलि अर्पित की


भाेपालम्, 15 दिसंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः लौहपुरुषस्य सरदार् वल्लभभाई पटेलस्य पुण्यतिथौ (१५ डिसम्बर्) तस्मै श्रद्धाञ्जलिं समर्पितवान्। सः भारतदेशस्य एकीकरणे पटेलमहाभागस्य योगदानं स्मृत्वा राष्ट्रस्य एकतायाḥ अखण्डतायाḥ च प्रतीकरूपेण तस्मै नमनं कृतवान् तथा तस्य आदर्शेभ्यः प्रेरणां ग्रहीतुं जनान् आह्वानं कृतवान्।

मुख्यमन्त्री डॉ. यादवः सोमवासरे स्वस्य सामाजिकमाध्यम-पटल ‘एक्स्’ इत्यत्र लिखितवान् यत् “लौहपुरुषस्य सरदार् वल्लभभाई पटेल-महोदयस्य पुण्यतिथौ सादरं श्रद्धाञ्जलिं समर्पयामि। देशस्य एकतायाः अखण्डतायाः प्रगतेः च कृते तेन अप्रतिमं योगदानं कृतम्। तस्य समर्पणं युवानां कृते सदा राष्ट्रभक्तेः प्रेरणां दास्यति।”

भारतीयजनतापक्षस्य प्रदेशाध्यक्षेन अपि कृतं नमनम्

भारतीयजनतापक्षस्य प्रदेशाध्यक्षः हेमन्त खण्डेलवालः अपि सरदार् वल्लभभाई पटेलस्य पुण्यतिथौ तं स्मृत्वा विनम्रां श्रद्धाञ्जलिं अर्पितवान्। सः ‘एक्स्’ इत्यत्र स्वीय-प्रेषिते लिखितवान् यत् “महान् स्वातन्त्र्यसंग्रामसेनानी, देशस्य एकतायाः, अखण्डतायाः कृते स्वजीवनं समर्पितवान्, मातृभारत्याः वीरः सुपुत्रः ‘भारत-रत्न’ सरदार् वल्लभभाई पटेल-महोदयः— तस्य पुण्यतिथौ कोटिशः नमनम्। राष्ट्रवादी-विचारधारया परिपूर्णाः तव ओजस्विनः विचाराः चिरकालं समाजस्य पन्थानं प्रदर्शयिष्यन्ति।”

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani