पश्चिमबंगाल-विधानसभा-निर्वाचनात् पूर्वं ईवीएम-परीक्षणार्थं निर्वाचन-आयोगेन पञ्च नोडल-अधिकारी नियुक्ताः
कोलकाताम्, 15 दिसम्बरमासः (हि.स.)। आगामिवर्षे सम्पन्नीयस्य पश्चिमबंगाल-विधानसभा-निर्वाचनस्य सज्जतारूपेण निर्वाचन-आयोगेन इलेक्ट्रॉनिक-मतदान-यन्त्राणां (ईवीएम) प्रथम-स्तरीय-परीक्षणार्थं पञ्च नोडल-अधिकारी नियुक्ताः सन्ति। आयोगेन स्पष्टं कृतं यत् एते स
मुख्य चुनाव अधिकारी मनोज अग्रवाल


कोलकाताम्, 15 दिसम्बरमासः (हि.स.)। आगामिवर्षे सम्पन्नीयस्य पश्चिमबंगाल-विधानसभा-निर्वाचनस्य सज्जतारूपेण निर्वाचन-आयोगेन इलेक्ट्रॉनिक-मतदान-यन्त्राणां (ईवीएम) प्रथम-स्तरीय-परीक्षणार्थं पञ्च नोडल-अधिकारी नियुक्ताः सन्ति। आयोगेन स्पष्टं कृतं यत् एते सर्वे अधिकारी अन्येभ्यः राज्येभ्यः आनीताः सन्ति, येन सम्पूर्णा प्रक्रिया निष्पक्षा पारदर्शी च तिष्ठेत्।

आयोगस्य विज्ञप्त्यानुसारं, एते सर्वे अधिकारी ईवीएम-प्रथम-स्तरीय-परीक्षणकाले विभिन्नेषु केन्द्रेषु पर्यवेक्षक-रूपेण कार्यं करिष्यन्ति। नियुक्ता अधिकारी एते सन्ति—अरुणाचल-प्रदेशस्य उपमुख्य-निर्वाचन-अधिकारी शानिया कायेम् मिजे, महाराष्ट्रस्य उपमुख्य-निर्वाचन-अधिकारी योगेश् गोसावी, मेघालयस्य अतिरिक्त-मुख्य-निर्वाचन-अधिकारी पी.के. बोरो, मिजोरमस्य संयुक्त-मुख्य-निर्वाचन-अधिकारी एथेल् रोथाङ्गपुई, तथा च निर्वाचन-आयोगस्य अवर-सचिवः कनिष्ककुमारः।

आयोगेन एतदपि सूचितं यत् अधुना मतदानकाले यन्त्रे प्रत्येकस्य प्रत्याशिनः छायाचित्रमपि प्रदर्शितं भविष्यति।

उल्लेखनीयं यत् 2021 तमे वर्षे सम्पन्ने विधानसभा-निर्वाचने पश्चिमबंगाल-राज्ये प्रायः 80 सहस्राधिकानि मतदान-केन्द्राणि आसन्। निर्वाचन-आयोगस्य एकः अधिकारी अवदत् यत् नूतन-मतदाता-पञ्जीकरणस्य पुनरीक्षणस्य च अनन्तरं मतदान-केन्द्राणां संख्यायां 10 सहस्राधिकस्य वृद्धेः सम्भावना अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता