Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 15 दिसंबरमासः (हि.स.)। अर्जेण्टिनादेशस्य दिग्गजः पादकन्दुकक्रीडाकारी लियोनेल् मेसी गोट् इण्डिया-पर्यटनकाले भारतदेशे प्राप्तस्य अपारस्नेहस्य कृते प्रशंसकानां प्रति कृतज्ञतां व्यक्तवान्। सः अवदत् यत् एषः अनुभवः तस्य कृते अत्यन्तं विशेषः स्मरणीयश्च आसीत्।
अरुणजेटली-क्रिकेटाङ्गणे उपस्थितान् दर्शकान् सम्बोधयन् मेसी अवदत्—“भारतदेशे अस्मिन् काले भवद्भिः अस्मभ्यं यत् प्रेम प्रदत्तं, तस्मै धन्यवादाः। एषः अस्माकं कृते एकः अनुपमः अनुभवः आसीत्। यात्रा अल्पकालिकी अतिव्यस्ता च आसीत्, तथापि यः स्नेहः आत्मीयभावः च अस्माभिः अनुभूतः, सः अविश्वसनीयः आसीत्। अस्माकं पूर्वमेव ज्ञातम् आसीत् यत् अत्र अस्माकं कृते प्रेम अस्ति, किन्तु तं समीपतः अनुभवनम् अद्भुतम् आसीत्। वयं कदाचित् पुनः भारतं अवश्यमेव आगमिष्यामः।”
जयशाहेन मेसये उपहाराः अर्पिताः
गोट् इण्डिया-पर्यटनस्य अन्तिमचरणे अन्ताराष्ट्रियक्रिकेटपरिषदः अध्यक्षः जयशाहः मेसीभ्यः भारत–अमेरिका पुरुष टी–२० विश्वकप् २०२६ प्रतियोगितायाः प्रवेशपत्राणि अर्पितवान्। एषः कार्यक्रमः दिल्लीस्थे अरुणजेटली-क्रिकेटाङ्गणे आयोजितः, यस्मिन् दिल्लीमुख्यमन्त्री रेखागुप्ता तथा डीडीसीए अध्यक्षः रोहणजेटली अपि उपस्थिताः आसन्। जयशाहः मेसीभ्यः एकं फ्रेमीकृतं क्रिकेटदण्डं तथा भारतीयक्रिकेटदलस्य जर्सीम् अपि अर्पितवान्। मेसीसह उपस्थितयोः रोड्रिगो डी पॉल् तथा लुइस् सुवारेज् इत्येताभ्याम् अपि स्मृतिचिह्नानि दत्तानि।
महिला प्रीमियर् लीगे वेस्ट् हैम् युनाइटेड् दलस्य प्रतिनिधित्वं कृतवती पूर्वा भारतीय गोलरक्षिका अदिति चौहान् त्रिभ्यः अतिथिभ्यः हस्ताक्षरयुक्तानि टी-शर्ट्-वस्त्राणि अर्पितवती।
घनकोहरकारणात् मेसीस्य चार्टर्ड् विमानस्य दिल्लीं प्रति आगमने विलम्बः अभवत्। ततः सः सीध्रमेव द लीला पैलेस् नामकं होटेलं गतः, तत्र च निजी ‘मीट्-एण्ड्-ग्रीट्’ कार्यक्रमे सहभागित्वं कृतवान्।
गोट् इण्डिया-पर्यटनस्य आरम्भः कोलकातास्थे साल्ट् लेक्-क्रिकेटाङ्गणे अव्यवस्थाकारणात् किञ्चित् कठिनः अभवत्, यत्र विशालजनसमूहस्य नियन्त्रणं आयोजकानां कृते चुनौतीरूपेण अभवत्। ततः हैदराबादे मेसी बालकैः सह पादकन्दुकं क्रीडितवान्, उप्पल-क्रिकेटाङ्गणे च वीआईपी कोष्ठकात् दर्शकान् अभिवादितवान्।
मुम्बईनगरे मेसी ऐतिहासिके वानखेड़े-क्रिकेटाङ्गणे क्रिकेटस्य महान् क्रीडाकारी सचिन् तेन्दुलकरं, महाराष्ट्रमुख्यमन्त्री देवेंद्रफडणवीसः, क्रीडाजगतः व्यक्तित्वानि, चलचित्रनटान् तथा अन्यान् गणमान्यजनान् अपि समागतः।
---------------
हिन्दुस्थान समाचार