Enter your Email Address to subscribe to our newsletters




जयपुरम्, 15 दिसंबरमासः (हि.स.)।
मुख्यमन्त्री भजनलालशर्मा राज्यसर्वकारस्य द्विवर्षपूर्णतायाः उपलक्ष्ये सोमवासरे जयपुरनगरे स्थितायां पिंजरापोलगौशालायां गोसेवां कृतवान्। सः सपत्नीकं गवां पूजाम् अर्चनां च कृत्वा गुडं च पशुचरणं च अदात्। अस्मिन् अवसरें सः हवने आहुतिम् अपि दत्तवान्। सः अवदत् यत् गोसेवा अस्माकं सनातनसंस्कृतेः परम्परायाश्च अभिन्नः अङ्गः अस्ति, तथा च राज्यसर्वकारः गौवंशस्य संरक्षणसंवर्धनाय निरन्तरं कार्यं करोति।
मुख्यमन्त्री गौशालापरिसरे चिकित्सा–स्वास्थ्यविभागेन आयोजितस्य रक्तदानशिविरस्य अवलोकनं कृतवान्। सः रक्तदातॄणां उत्साहवर्धनं कृत्वा अवदत् यत् रक्तदानं महादानम् अस्ति। सहैव सः सर्वान् रक्तदानाय अग्रसरितुं तथा एतादृशेषु आयोजनेषु उत्साहेन भागं ग्रहीतुं आह्वानं कृतवान्।
शर्मा अवदत् यत् राज्यसर्वकारस्य एषः द्विवर्षीयः कार्यकालः सेवा–सुशासन–जनकल्याणेषु समर्पितः आसीत्। राज्यसरकारः पारदर्शितया संवेदनशीलतया च सर्ववर्गाणां उत्थानाय निरन्तरं प्रयत्नं करोति।
अस्मिन् अवसरे मुख्यमन्त्री गोपालनविभागेन प्रकाशितायाः “डेयरी के स्वर्णिम दो वर्ष” इति पुस्तकस्य विमोचनं अपि कृतवान्। गौशालापरिसरे उपस्थितैः आमजनैः मुख्यमन्त्री स्वागतं अभिनन्दनं च कृतम्।
अस्मिन् काले पशुपालन–गोपालनमन्त्री जोरारामकुमावतः, मुख्यसचिवः वी. श्रीनिवासः, प्रमुखशासनसचिवः (चिकित्सा–स्वास्थ्य) गायत्री ए. राठौडः, शासनसचिवः (गोपालन) डॉ. समितशर्मा इत्यादयः तथा बहवः नागरिकाः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार