Enter your Email Address to subscribe to our newsletters


जयपुरम्, 15 दिसंबरमासः (हि.स.)।मुख्यमन्त्री भजनलालशर्मा सोमवासरे राज्यसर्वकारस्य द्विवर्षपूर्णतायाः अवसरें मोतीडूङ्गरीस्थिते श्रीगणेशमन्दिरे तथा जयपुरनगरे आराध्यदेवस्य श्रीगोविन्ददेवजीमन्दिरे सपत्नीकं गत्वा पूजाम् अर्चनां च कृतवान्। सः प्रदेशस्य सुखसमृद्धिं सर्वसाधारणजनस्य च सुखशान्तिं प्रार्थितवान्।
अस्मिन् अवसरे शर्मा मन्दिरपरिसरे स्थितानां श्रद्धालूनां अभिवादनं कृतवान्, श्रद्धालवर्गः अपि राज्यसरकारस्य द्विवर्षपूर्णतायाः कारणेन मुख्यमन्त्रिणं शुभाशयैः अभिनन्दितवान्। अस्मिन् अवसरें विधायकः बालमुकुन्दाचार्यः तथा बहवः श्रद्धालवः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार