Enter your Email Address to subscribe to our newsletters

वाराणसी,15 दिसंबरमासः (हि.स. )।उत्तरप्रदेशस्य धार्मिकनगरी वाराणसीमध्ये सोमवासरस्य सायं ज्योतिष्पीठाधीश्वरः जगद्गुरुः शंकराचार्यः स्वामी अविमुक्तेश्वरानन्द सरस्वती आगच्छति। लखनऊतः काशी नगरीं आगत्य शंकराचार्यं स्वामिनं अविमुक्तेश्वरानन्दं सन्ताः बटुकाः भक्ताश्च पुष्पवृष्ट्या जयघोषेण च सह भव्यतया स्वागतं करिष्यन्ति। एतां सूचनां श्रीविद्यामठस्य केदारघाटस्थितस्य प्रवक्ता संजय पाण्डेयः अददात्।
सः अवदत् यत् शुक्लयजुर्वेदस्य माध्यन्दिनीघनपाठग्रन्थस्य विमोचनं मङ्गलवासरे (१६ दिसम्बर्) सायं ५.३० वादने श्रीविद्यामठे भविष्यति। अयं कार्यक्रमः विद्याश्री धर्मार्थ न्यास काशी इत्यस्य तत्वावधानानुसारं आयोजितः भविष्यति। अस्मिन् अवसरे शंकराचार्यस्य स्वामी अविमुक्तेश्वरानन्द सरस्वत्याः विशिष्टा उपस्थितिः अपि भविष्यति। शंकराचार्यस्य करकमलाभ्यां ग्रन्थस्य विमोचनं सम्पन्नं भविष्यति।
कार्यक्रमस्य मुख्यविषयः “शुक्लयजुर्वेद माध्यन्दिनी शाखा” इत्यनेन सम्बद्धा वैदिकपरम्परा अनुसन्धाने संरक्षणं च अस्ति। अस्य ग्रन्थस्य सम्पादकः शोधकर्ता च डॉ मणिकुमार झा अस्ति। अयं ग्रन्थः प्रकाशनसेवालाय ज्योतिर्मठ बद्रीकाश्रम हिमालय इत्यनेन प्रकाशितः अस्ति। अयं ग्रन्थः प्रथमवारं प्रकाशितः। अद्यावधि अयं घनपाठः श्रुतिपरम्परया मौखिकरूपेण संरक्षितः आसीत्। अयं ग्रन्थः वैदिकाध्ययनार्थिनां शोधार्थिनां सनातनपरम्परया सम्बद्धानां विद्वतां च कृते अत्यन्तं उपयोगी भविष्यति।
लोकार्पणसमारोहस्य अवसरे शिक्षाविदः प्रो हृदयरञ्जन शर्मा प्रो श्रीकिशोर मिश्र प्रो राममूर्ति चतुर्वेदी प्रो पतञ्जलि मिश्र प्रो महेन्द्र पाण्डेय प्रो सुनील कात्यायनः प्रो कमलेश झा च उपस्थिताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार