इमोशनल अवतारे दृष्टः कार्तिक आर्यनः, 'तू मेरी मैं तेरा…' इति नूतनं गीतम् आगतम्
बॉलीवुडचलचित्रजगतः प्रसिद्धः प्रेमी नायकः कार्तिकआर्यणः पुनः एकवारं प्रेमस्य भग्नहृदयस्य च कथां गृहीत्वा रजतपटले प्रत्यागन्तुं सज्जः अस्ति। तस्य आगामिचलचित्रे “तू मेरी मैं तेरा, मैं तेरा तू मेरी” इत्यस्मिन् अनन्यापाण्डे मुख्यनायिकायाः भूमिकायां दृ
कार्तिक आर्यन - फोटो सोर्स एक्स


बॉलीवुडचलचित्रजगतः प्रसिद्धः प्रेमी नायकः कार्तिकआर्यणः पुनः एकवारं प्रेमस्य भग्नहृदयस्य च कथां गृहीत्वा रजतपटले प्रत्यागन्तुं सज्जः अस्ति। तस्य आगामिचलचित्रे “तू मेरी मैं तेरा, मैं तेरा तू मेरी” इत्यस्मिन् अनन्यापाण्डे मुख्यनायिकायाः भूमिकायां दृश्यते। अस्य चलचित्रस्य शीर्षकगीतं पूर्वमेव दर्शकेषु अत्यन्तं चर्चितं जातम्, अधुना च निर्मातारः द्वितीयं गीतं “तेनु ज्यादामोहब्बत” इति प्रकाशितवन्तः, यत् साक्षात् हृदयम् स्पृशति।

भग्नहृदयस्य वेदनां वर्णयति “तेनु ज्यादामोहब्बत”

नवीनं गीतं “तेनु ज्यादामोहब्बत” सारेगामा नामकस्य यूट्यूब्-चैनले प्रकाशितम् अस्ति। अस्य करुणरसपूर्णस्य गीतस्य कण्ठदानं पञ्जाबीगायकः तलविन्दरसिंहसिद्धू कृतवान्। गीतदृश्येषु कार्तिकआर्यणस्य पात्रं अत्यन्तं भावुकं दृश्यते, यत्र सः मद्यनशायां निमग्नः सन् स्वस्य भग्नहृदयस्य वेदनां प्रकटयति। एतेन संकेतः लभ्यते यत् चलचित्रस्य कथायां कश्चन गम्भीरः मोडः आगमिष्यति, यत्र प्रेम गहनं व्रणं ददाति।

अस्य चलचित्रस्य निर्देशनं समीरविद्वांसः कृतवान्। रोमाण्सेन, भावनाभिः, सङ्गीतेन च अलङ्कृतं “तू मेरी मैं तेरा, मैं तेरा तू मेरी” इति चलचित्रं अस्मिन् एव वर्षे पञ्चविंशतितमे दिसम्बरदिने चलचित्रगृहेषु प्रदर्शयितुं निश्चितम् अस्ति। भग्नहृदयानां प्रेमिकाणां कृते एतत् चलचित्रं तथा तस्य नवीनं गीतं च विशेषरूपेण प्रभावशाली भविष्यति।

हिन्दुस्थान समाचार