Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 15 दिसंबरमासः (हि.स.)।
देशस्य प्रथमोपप्रधानमन्त्री तथा गृहमन्त्री ‘लौहपुरुषः’ सरदारवल्लभभाईपटेलः तस्य पञ्चसप्ततितम्यां पुण्यतिथौ सोमवासरे समग्रदेशे श्रद्धाञ्जलयः अर्पिताः। रक्षामन्त्री केन्द्रीयमन्त्रिणः विविधराज्यानां मुख्यमन्त्रिणः विपक्षीयदलानां नेतारश्च राष्ट्रनिर्माणे सरदारपटेलस्य योगदानं स्मृत्वा तस्मै नमनं कृतवन्तः।
रक्षामन्त्री राजनाथसिंहः अवदत् यत् सरदारपटेलः नवस्वतन्त्रं भारतं साहसेन दृढविश्वासेन एकतायाः सूत्रेण च आबद्धवान्। अद्यतनः सशक्तः आत्मविश्वासी च भारतः तस्य दूरदृष्टेः राष्ट्रनिर्माणविचारस्य च परिणामः अस्ति।
केन्द्रीयसड़कपरिवहनमन्त्री नितिनगडकरीः तं राष्ट्रियएकतायाः शिल्पिनं इति वर्णयित्वा विनम्रं अभिवादनं अर्पितवान्।
केन्द्रीयमन्त्री किरेनरिजिजूः अवदत् यत् लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य पुण्यतिथौ तस्मै सादरं नमनम्। तस्य दूरदृष्टिः दृढं नेतृत्वं च भारतं सशक्तं राष्ट्रं कर्तुं आधारं स्थापितवन्तौ। तस्य समर्पणं सर्वासां पीढीनां कृते प्रेरणास्रोतः भविष्यति।
विदेशमन्त्री एस जयशंकरः अपि सरदारपटेलस्य पञ्चसप्ततितम्यां पुण्यतिथौ तस्मै भावभीनीं श्रद्धाञ्जलिं अर्पितवान्।
काँग्रेसाध्यक्षः मल्लिकार्जुनखरगेः सरदारपटेलं स्वतन्त्रभारतस्य एकतायाः अखण्डतायाश्च शिल्पकारं इति वर्णयित्वा अवदत् यत् तस्य जीवनं राष्ट्रसेवायाः प्रेरणां दास्यति।
लोकसभायां नेता प्रतिपक्षः राहुलगान्धी अवदत् यत् सरदारपटेलः देशं एकतायाः अखण्डतायाश्च सूत्रेण संयोज्य प्रेम सद्भावं भ्रातृत्वं च दर्शितवान्।
काँग्रेसमहासचिवा प्रियङ्कागान्धीवाड्रा तं नत्वा अवदत् यत् सरदारपटेलः देशे लोकतन्त्रस्य दृढां बुनियादं स्थापयितुं आधुनिकभारतस्य निर्माणे च अत्यन्तं महत्त्वपूर्णां भूमिकां निर्वहितवान्। तस्य जीवनं विचाराः देशं प्रति योगदानं च अस्माकं सर्वेषां कृते प्रेरणास्रोतः अस्ति।
उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः लखनऊनगरे पटेलपार्कस्थितायां प्रतिमायां पुष्पाञ्जलिं अर्पितवान्। सः अवदत् यत् राष्ट्रस्य एकतायै अखण्डतायै च सरदारपटेलस्य योगदानं सदैव प्रेरणास्रोतः भविष्यति।
मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः नमनं कृत्वा अवदत् यत् लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य पुण्यतिथौ सादरां श्रद्धाञ्जलिं अर्पयामि। देशस्य एकतायै अखण्डतायै प्रगतये च तेन अप्रतिमं योगदानं कृतम्। तस्य समर्पणं युवजनान् सदा राष्ट्रभक्त्याः प्रेरयिष्यति।
राजस्थानस्य मुख्यमन्त्री भजनलालशर्मा अवदत् यत् सरदारवल्लभभाईपटेलस्य राष्ट्रियएकतायाः अखण्डतायाश्च सुदृढीकरणे अतुलनीयं योगदानं सदैव स्मरणीयं भविष्यति। तस्य दृढं नेतृत्वम् अदम्यं साहसं राष्ट्रहितं सर्वोपरि कर्तुं सङ्कल्पश्च अस्माकं सर्वेषां कृते प्रेरणास्रोतः अस्ति।
दिल्लीप्रदेशस्य मुख्यमन्त्री रेखागुप्ता अवदत् यत् सरदारपटेलः स्वीयया अदम्यया इच्छाशक्त्या दूरदर्शितया राजनैतिककौशलेन च पञ्चशताधिकषष्ट्यधिकानां रियासतां भारतीयसङ्घे विलयेन अखण्डभारतस्य दृढां नींव स्थापितवान्। अखिलभारतीयसेवानां सुदृढीकरणे कृषकाणां अधिकारार्थं च तस्य अथकाः प्रयासाः राष्ट्राय अमूल्याः सन्ति। राष्ट्रस्य एकतायै अखण्डतायै सशक्तभारतस्य निर्माणाय च तस्य निःस्वार्थं समर्पणं सदैव अस्मान् प्रेरयिष्यति।
महाराष्ट्रस्य मुख्यमन्त्री देवेंद्रफणनवीसः अवदत् यत् दूरदर्शी नेता भारतस्य एकतायाः वास्तुकारः भारतस्य लौहपुरुषः सरदारवल्लभभाईपटेलः तस्य पञ्चसप्ततितमे स्मृतिदिने नमनार्हः अस्ति। तस्य अटूटः सङ्कल्पः नेतृत्वं संततिञ्च प्रेरयिष्यति।
उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी स्वशासकीयावासे अखण्डभारतस्य शिल्पकारं महान् स्वतन्त्रतासेनानी ‘भारत रत्न’ लौहपुरुषं सरदारवल्लभभाईपटेलं तस्य पुण्यतिथौ श्रद्धासुमनैः पूजयित्वा तस्मै श्रद्धाञ्जलिं अर्पितवान्।
---------------
हिन्दुस्थान समाचार