Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, 15 दिसंबरमासः (हि.स.)। जम्मू–कश्मीरस्य उपराज्यपालः मनोज–सिन्हा सोमवासरे भारतरत्नसम्मानितस्य सरदार–वल्लभभाई–पटेलस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिम् अर्पितवान्।
जम्मू–कश्मीरस्य उपराज्यपालः सामाजिक–माध्यम–मञ्चे ‘एक्स्’ इत्यस्य माध्यमेन अवदत् यत् भारतस्य महान् एकीकरणकर्ता, भारतरत्न–सम्मानितः सरदारवल्लभभाई–पटेलः पुण्यतिथौ हार्दिक–श्रद्धाञ्जलिम् अर्हति। सः अवदत् यत् सरदारपटेलस्य एकता, अखण्डता तथा राष्ट्र–निर्माणसम्बद्धाः आदर्शाः सुदृढस्य आत्मनिर्भरस्य च भारतस्य निर्माणदिशायां राष्ट्रं निरन्तरं प्रेरयन्ति।
वल्लभभाई–झावेरभाई–पटेलः, ये सामान्यतया सरदारवल्लभभाईपटेल इति नाम्ना ज्ञायन्ते, भारतीयः स्वातन्त्र्य–सेनानी तथा राजनेता आसीत्। सः १९४७ तः १९५० पर्यन्तं भारतस्य प्रथमस्य उपप्रधानमन्त्रिणः तथा गृहमन्त्रिणः रूपेण कार्यं कृतवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता