Enter your Email Address to subscribe to our newsletters

वाराणसी, 15 दिसंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन–यादवः सोमवासरे वाराणसी–नगरे श्रीकाशी–विश्वनाथ–मन्दिरे दर्शन–पूजनं कृतवान्। दर्शन–पूजनानन्तरं बहिः आगत्य पत्रकारैः सह संवादे सः अवदत्—“अहं महाकालस्य नगर्यात् आगच्छामि, अतः श्रीकाशी–विश्वनाथस्य दर्शनस्य आनन्दं सम्यगवगच्छामि। श्रीकाशी–विश्वनाथ–बाबायाः दर्शनस्य सौभाग्यं प्राप्तम्। बाबायाः कृपा अस्मासु सदा वर्तताम्—इत्येषा एव प्रार्थना।” मुख्यमंत्री डॉ. मोहनयादवः अपि अवदत् यत् बिहारराज्यस्य कर्मठस्य कार्यकर्तुः तथा मन्त्रिणः नितिन–नबीनस्य भारतीय–जनता–पक्षस्य राष्ट्रीय–कार्यकारी–अध्यक्षपदे नियुक्तिः अभवत्, तस्मै सः हार्दिकाः शुभाशयाः समर्पयति। नितिन–नबीनः सुयोग्यः, युवा च अस्ति, संगठनस्य तथा सर्वकारस्य अनुभवोऽपि तस्मिन् वर्तते। निश्चयेन सः पक्षं अग्रे नयिष्यति। पत्रकारैः सह संवादं समाप्य मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन–यादवः जौनपुर–नगरे उत्तरप्रदेश–सर्वकारस्य मन्त्रिणः गिरीशयादवस्य आवासे आयोजितायां श्रद्धाञ्जलिसभायां भागं ग्रहीतुं प्रस्थितवान्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani