धारजनपदे पीएममित्रा-उद्याने विस्थापनस्य २४ हितग्राहिभ्यः स्थायिगृहाणि समर्पितानि
इन्दौरनगरम्, १५ दिसम्बरमासः (हि.स.)।मध्यप्रदेश-औद्योगिकविकासनिगमस्य (एमपीआईडीसी) क्षेत्रीयकार्यालयस्य कार्यकारीसंचालकेन हिमांशुप्रजापतिना सोमवासरे मध्यप्रदेशस्य धारजनपदे बदनावरक्षेत्रे पीएम-मित्रा-उद्यानस्य भूमौ निवसतां २४ कुटुम्बानां सुव्यवस्थितान
धारः  पीएम मित्रा पार्क में विस्थापन के 24 हितग्राहियों को सौंपे गए पक्के मकान


इन्दौरनगरम्, १५ दिसम्बरमासः (हि.स.)।मध्यप्रदेश-औद्योगिकविकासनिगमस्य (एमपीआईडीसी) क्षेत्रीयकार्यालयस्य कार्यकारीसंचालकेन हिमांशुप्रजापतिना सोमवासरे मध्यप्रदेशस्य धारजनपदे बदनावरक्षेत्रे पीएम-मित्रा-उद्यानस्य भूमौ निवसतां २४ कुटुम्बानां सुव्यवस्थितानि पक्कगृहाणि समर्पितानि। अस्मिन् अवसरे विधिविधानपूर्वकं पूजा-अर्चना कृत्वा हितग्राहिणां गृहप्रवेशः कारितः। अस्मिन् कार्यक्रमे स्थानीयः सरपञ्चः, मण्डलाध्यक्षः, तहसीलदारः तथा एमपीआईडीसी-निगमस्य अधिकारीणः अपि उपस्थिताः आसन्।

धारजनपदस्य भैंसोलाग्रामे विकासमानस्य पीएम-मित्रा-उद्यानस्य भूमेः मध्ये अवस्थितानां कुलं ८९ कुटुम्बानां विस्थापनं एमपीआईडीसी द्वारा समीपे विकसितायां सुव्यवस्थितायां आवासोपनगर्यां (कॉलोनी) क्रियते। अस्य प्रयोजनार्थं एमपीआईडीसी द्वारा प्रत्येकं कुटुम्बं पक्कगृहं प्रदीयते। प्रथमचरणे २४ कुटुम्बेभ्यः गृहाणि समर्पितानि।

विकसितायां अस्यां वसतिक्षेत्रेषु ८९ द्वि-कक्षीयानि गृहाणि तथा १४० विकसितभूखण्डाः सन्ति। अस्यां वसतिक्षेत्रेषु सर्वाः आधारभूतसुविधाः यथा विद्युतापूर्तिः, नलजलव्यवस्था, मार्गाः, एस.टी.पी. (शुद्धीकरण-यन्त्रणा), नालिकाः, आङ्गनवाडीकेन्द्रम्, प्राथमिकविद्यालयः, उद्यानम् तथा सामुदायिकभवनं च विकसितानि सन्ति। एषा वसतिक्षेत्रा सम्पूर्णतया आधुनिकसुविधाभिः युक्ता अस्ति। सुरक्षां दृष्ट्वा सम्पूर्णः परिसरः परिकोट्या आच्छादितः कृतः।

एषा सम्पूर्णा परियोजना १३.४८ कोटिरूप्यकाणां व्ययेन विकसितीक्रियते, यस्मिन् प्रत्येकस्य निर्माणाधीनगृहस्य व्ययः प्रायः ६ लक्षरूप्यकाणि अस्ति। एषा परियोजना अप्रैल् २०२६ पर्यन्तं पूर्णा करिष्यते तथा समस्तहितग्राहिभ्यः चरणबद्धरूपेण गृहाणि समर्पितानि भविष्यन्ति। १४० विकसितभूखण्डाः अन्येषु विस्थापनकार्येषु उपयोगाय प्रयुज्यन्ते।

हिन्दुस्थान समाचार / Dheeraj Maithani