Enter your Email Address to subscribe to our newsletters

रीवा, 15 दिसंबरमासः (हि.स.)। श्रीरामजन्मभूम्याः आन्दोलनस्य अग्रगण्येषु सन्तेषु परिगण्यमानः, पूर्वसांसदः, प्रसिद्धः कथावाचकः च डॉ. रामविलासदासवेदान्ती महाराजः दिवंगतः। सः सप्तषष्टिवर्षीयवयसि मध्यप्रदेशस्य रीवानगरे स्थिते सुपर–स्पेशलिटी चिकित्सालये सोमवासरे उपचारकाले अन्तिमश्वासं त्यक्तवान्। एतत् तस्य उत्तराधिकारी महन्तः राघवेशदासवेदान्ती इत्यनेन पुष्टं कृतम्।
महन्तः राघवेशदासः अवदत् यत् महाराजस्य पार्थिवशरीरम् अद्य अयोध्यां नीयते। तस्य अन्तिमयात्रायाः शोभायात्रा मङ्गलवासरे प्रातः हिन्दूधामात् निर्गत्य राममन्दिरं यास्यति। सरयूतीरे प्रातः अष्टवादने तस्य अन्त्येष्टिकर्म विधास्यते। सः अवदत् यत् महाराजः दशमे डिसेम्बरमासे दिल्लीतः रीवानगरं प्राप्तवान्। तत्र भटवाग्रामे तस्य रामकथाप्रवचनं प्रवृत्तम् आसीत्, यत् सप्तदशं डिसेम्बरपर्यन्तं प्रवर्तितव्यं आसीत्। किन्तु तस्मिन्नेव मध्ये तस्य स्वास्थ्यं विकृतं जातम्, अतः गतद्वयदिनात् रीवायामेव तस्य उपचारः प्रचलितः आसीत्।
महन्तः राघवेशदासः अवदत् यत् सोमवासरस्य प्रभाते तस्य अवस्था अकस्मात् अत्यन्तं गम्भीरा अभवत्। उत्तमोपचाराय तं दिल्लीनगरं नेतुं व्यवस्था क्रियते स्म, तदर्थं दिल्लीतः वायुअम्बुलेन्स् अपि रीवां प्राप्ता, किन्तु घनकुहासायाः कारणात् सा अवतरणं कर्तुं न अशक्नोत्। अपराह्णे द्वादशवादनविंशतिमिनिटे तस्य निधनं जातम्। तस्य निधनवार्तायां प्रसृते सति सम्पूर्णे रीवाजिले शोकतरङ्गः व्यापृतः। चिकित्सालयपरिसरे भक्तानां महान् समागमः अभवत्।
डॉ. रामविलासदासवेदान्तीस्य उपचारं कुर्वन्तः चिकित्सकाः अवदन् यत् महाराजः “सेप्टिसीमिया” इति नामकगम्भीरसंक्रमणेन पीडितः आसीत्। तस्य कारणेन तस्य रक्तदाबः अत्यन्तं न्यूनः अभवत् तथा सेप्टिसिमिक्–शॉक् इति अवस्था उत्पन्ना। चिकित्सकानुसारं अद्य प्रभाते तस्मै हृदयाघातः अपि अभवत्, ततः चिकित्सकैः अत्यन्तप्रयत्नेन तं पुनर्जीवितुं प्रयासः कृतः। संक्रमणस्य कारणेन मूत्रनिर्गमनं न जातम्, रक्तदाबश्च न्यूनः आसीत्, अतः सीआरआरटी तथा डायलिसिस् उपचारयोः योजना क्रियते स्म। तथापि सर्वेषां प्रयत्नानां पश्चात् अपि चिकित्सकाः तं रक्षितुं न अशक्नुवन्, इति ते शोकं व्यक्तवन्तः।
डॉ. वेदान्तीस्य जन्म रीवाजिलस्य गुढ़वाग्रामे सप्तमे अक्टोबरमासे १९५८ तमे वर्षे अभवत्। यदा सः द्विवर्षीयः आसीत् तदा तस्य मातुः निधनं जातम्। तस्य पितुः नाम रामसुमनत्रिपाठी पुरोहितः आसीत्, यः पूर्वकेन्द्रीयमन्त्रिणः अर्जुनसिंहस्य गुरुः आसीत्। वेदान्ती द्वादशवर्षवयसि अयोध्यां आगतः। सः द्वादशायां लोकसभायां उत्तरप्रदेशस्य प्रतापगढनिर्वाचनक्षेत्रात् भाजपायाः सांसदः निर्वाचितः। ततः पूर्वं १९९६ तमे वर्षे जौनपुरस्य मछलीशहरनिर्वाचनक्षेत्रात् अपि सांसदः आसीत्। श्रीराममन्दिरआन्दोलनं दृढीकृत्य तस्मै रामजन्मभूमिन्यासस्य कार्यकारीअध्यक्षपदं दत्तम्। बाबरीमस्जिदविध्वंसप्रकरणे सः अभियुक्तः आसीत्, किन्तु २०२० तमे वर्षे सीबीआई विशेषन्यायालयेन सः निर्दोषः घोषितः।
डॉ. वेदान्ती श्रीरामजन्मभूमिआन्दोलनस्य अग्रणीपुरुषेषु गणितः। यदा एषः विषयः केवलं सन्तानां केषाञ्चन सङ्गठनानां च मध्ये सीमितः मन्यते स्म, तदा सः एतं जनजनस्य विषयं कृतवान्। सः पुनःपुनः एतत् प्रतिपादितवान् यत् राममन्दिरस्य प्रश्नः न केवलं एकस्य धर्मस्य, अपि तु ऐतिहासिकान्यायस्य, सांस्कृतिकास्मितायाः, सभ्यतागतनिरन्तरतायाः च प्रश्नः अस्ति। देशव्यापी प्रवचनैः, सभाभिः, संवादैः च सः रामजन्मभूमिविषयकं जनजागरणं कृतवान्। तस्य भाषा साधारणजनानां कृते सरला, साक्षात्, आत्मविश्वासपूर्णा च आसीत्। सः रामं राजनीतिसंकेतं न, अपि तु मर्यादापुरुषोत्तमं रूपेण प्रस्तुतवान्। आन्दोलनं प्रति हिंसाविभाजनसाम्प्रदायिकतादोषारोपणेषु अपि सः संयमं न अत्यजत्, न्यायपालिकायां, संविधानायां, लोकतान्त्रिकप्रक्रियायां च विश्वासं धारितवान्। एतेनैव कारणेन आन्दोलनं अन्ततः कानूनीसंवैधानिकविजयम् अलभत।
उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः सामाजिकमाध्यममञ्चे “एक्स” इत्यत्र तस्मै श्रद्धाञ्जलिं अर्पितवान्। सः अलिखत्— “पूज्यसन्तस्य डॉ. वेदान्तीमहाभागस्य निधनं सनातनसंस्कृतेः कृते अपूरणीयक्षतिः अस्ति। तस्य गमनं युगस्य अन्तः इव। धर्माय समाजाय राष्ट्राय च समर्पितं तस्य जीवनं अस्माकं सर्वेषां कृते प्रेरणास्रोतः अस्ति।”मध्यप्रदेशस्य उपमुख्यमन्त्री राजेन्द्रशुक्लः अपि अवदत्— “सः न केवलं जनजागरणेन रामभक्तान् एकीकृतवान्, अपि तु न्यायालये सत्यस्य आस्थायाः च पक्षे निर्भीकतया साक्ष्यं दत्तवान्।”
_____________________
हिन्दुस्थान समाचार