प्रधानमंत्री त्श्रयाणां देशानां यात्रायै प्रस्थितः , जॉर्डन, इथियोपिया ओमान इत्येभिः सह संबंधेभ्यो लप्स्यते नवदृढता
नवदिल्ली, 15 दिसंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य जॉर्डन इथियोपिया ओमान इति त्रयाणां देशानां यात्रायै प्रस्थानं कृतवान्। यात्रायै प्रस्थानात् पूर्वं प्रधानमन्त्री स्ववक्तव्यं प्रकाशितवान्। सः अवदत् यत् एते त्रयः देशाः भारतस्य सह प्
प्रधानमंत्री नरेंद्र मोदी जॉर्डन के लिए रवाना होते हुए


नवदिल्ली, 15 दिसंबरमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी अद्य जॉर्डन इथियोपिया ओमान इति त्रयाणां देशानां यात्रायै प्रस्थानं कृतवान्। यात्रायै प्रस्थानात् पूर्वं प्रधानमन्त्री स्ववक्तव्यं प्रकाशितवान्। सः अवदत् यत् एते त्रयः देशाः भारतस्य सह प्राचीनसभ्यतागतसम्बन्धान् अपि च समकालीनद्विपक्षीयसाझेदारीं च साझां कुर्वन्ति। एषा यात्रा भारतस्य कूटनीतिकसहयोगं वैश्विकसहकार्यं च अधिकं सुदृढं कर्तुं महत्त्वपूर्णा मन्यते।

प्रधानमन्त्री स्वयात्रायाः आरम्भं जॉर्डनदेशात् करिष्यति यत्र सः नरेशस्य अब्दुल्लाद्वितीयस्य इब्न अल हुसेनस्य आमन्त्रणेन अम्माननगरं गमिष्यति। भारतजॉर्डनयोः राजनयिकसम्बन्धानां स्थापनेः पञ्चसप्ततिवर्षाणां पूर्त्यवसरे एषा यात्रा ऐतिहासिकी मन्यते। प्रधानमन्त्री नरेशं अब्दुल्लाद्वितीयं जॉर्डनस्य प्रधानमन्त्री जाफरहसनं तथा युवराजं अल हुसेन बिन अब्दुल्ला द्वितीयं च मिलिष्यति। तदतिरिक्तं भारतजॉर्डनसम्बन्धेषु महत्त्वपूर्णां भूमिकां निर्वहन्तं भारतीयसमुदायं अपि सः सम्भाषिष्यति।

जॉर्डनदेशानन्तरं प्रधानमन्त्री इथियोपियादेशस्य यात्रां करिष्यति। एषा तस्य इथियोपियायां प्रथमा आधिकारिकयात्रा भविष्यति। सः अवदत् यत् अदीसअबाबानगरं अफ्रीकीसङ्घस्य मुख्यालयमपि अस्ति यत् भारतस्य जी ट्वेण्टी अध्यक्षताकाले द्विसहस्रत्रयोविंशतितमे वर्षे जी ट्वेण्टी इत्यस्य स्थायिसदस्यत्वं प्राप्तवान्। प्रधानमन्त्री इथियोपियायाः प्रधानमन्त्रीना डाक्टर अबी अहमद अली इत्यनेन सह व्यापकां चर्चां करिष्यति तथा तत्र निवसन्तं भारतीयसमुदायं अपि मिलिष्यति। तदतिरिक्तं सः इथियोपियायाः संसदः संयुक्तसत्रं सम्बोधयिष्यति यत्र लोकतन्त्रस्य जननीरूपेण भारतस्य यात्रां ग्लोबल साउथस्य कृते भारत इथियोपिययोः साझेदारीस्य महत्त्वं च विषये स्वविचारान् प्रस्तोष्यति।

यात्रायाः अन्तिमचरणे प्रधानमन्त्री ओमानदेशं गमिष्यति। एषः दौरा भारतओमानयोः राजनयिकसम्बन्धानां सप्ततिवर्षपूर्त्यवसरे आयोजितः अस्ति। मस्कटनगरे प्रधानमन्त्री ओमानदेशस्य सुल्तानेन सह मिलिष्यति तथा उभयदेशयोः मध्ये रणनीतिकसाझेदारीं व्यापारिकं आर्थिकसहयोगं च अधिकं सुदृढं कर्तुं विषये चर्चां करिष्यति। ओमानदेशे निवसन्तं भारतीयसमुदायं अपि सः सम्बोधयिष्यति ये देशस्य विकासे भारतओमानसम्बन्धानां दृढीकरणे च महत्त्वपूर्णं योगदानं कृतवन्तः।

प्रधानमन्त्री विश्वासं व्यक्तवान् यत् एषा त्रिदेशीयात्रा भारतस्य द्विपक्षीयसम्बन्धान् नवोच्चताभ्यः नयिष्यति तथा वैश्विकमञ्चे भारतस्य भूमिकां अधिकं सुदृढां करिष्यति।

---------------

हिन्दुस्थान समाचार