Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 15 दिसंबर मांसः(हि.स.)।
सोमवासरे प्रधानमन्त्री नरेन्द्रमोदीः केन्द्रीयगृहमन्त्री अमितशाहश्च लौहपुरुषं सरदारवल्लभभाईपटेलं तस्य पञ्चसप्ततितम्यां पुण्यतिथौ श्रद्धाञ्जलिमर्पितवन्तौ। उभौ नेतारौ राष्ट्रनिर्माणे सरदारपटेलस्य अतुलनीयं योगदानं स्मृतवन्तौ।
प्रधानमन्त्री नरेन्द्रमोदीः सामाजिकमाध्यमे ‘एक्स्’ इति मंचे लिखित्वा अवदत् यत् लौहपुरुषाय सरदारवल्लभभाईपटेलाय तस्य पुण्यतिथौ सादरं नमनम्। सः देशं एकसूत्रेण बद्धं कर्तुं स्वजीवनं समर्पितवान्। अखण्डस्य सशक्तस्य च भारतवर्षस्य निर्माणे तस्य योगदानं तादृशं यत् कृतज्ञं राष्ट्रं कदापि विस्मर्तुं न शक्नोति।
केन्द्रीयगृहमन्त्री अमितशाहः अपि ‘एक्स्’ इति मंचे स्वसन्देशे सरदारपटेलं राष्ट्रियएकतायाः प्रतीकं दृढभारतस्य शिल्पकारं च अवर्णयत्। सः अवदत् यत् सरदारसाहेबः विविधविभागेषु विभक्तं नवस्वतन्त्रं भारतं प्रतिकूलपरिस्थितीनामपि मध्ये एकीकृत्य सुदृढस्य राष्ट्रस्य रूपं दत्तवान्। देशस्य प्रथमगृहमन्त्रीरूपेण सः मातृभूमेः सुरक्षा आन्तरिकस्थैर्यं शान्तिस्थापनं च स्वजीवनलक्ष्यं कृतवान्।
अमितशाहः अवदत् यत् सहकारिचलनं पुनर्जीवयित्वा महिलानां कृषकाणां च स्वावलम्बनस्य माध्यमेन आत्मनिर्भरभारतस्य आधारं स्थापयितारः सरदारवल्लभभाईपटेलः राष्ट्रप्रथमस्य मार्गे ध्रुवतारकवत् देशवासिनां मार्गदर्शनं निरन्तरं करिष्यन्ति।
---------------
हिन्दुस्थान समाचार