त्रयाणां देशानां राजदूताः राष्ट्रपतये समर्पितवन्तः परिचयपत्रम्
नवदिल्ली, 15 दिसंबरमासः (हि.स.)।राष्ट्रपतिः द्रौपदीमुर्मुः सोमवासरे राष्ट्रपतिभवने आयोजिते एकस्मिन् समारोहे त्रयाणां देशानां राजदूतानां परिचयपत्राणि स्वीकृतवती। परिचयपत्राणि समर्पितवन्तः ईरानदेशस्य राजदूतः डॉ. मोहम्मद् फतहअली, ब्रुनेई दारुस्सलामदे
ईरान के राजदूत डॉ. मोहम्मद फतहअली सोमवार को राष्ट्रपति द्रौपदी मुर्मु को अपना परिचय पत्र सौंपते हुए


नवदिल्ली, 15 दिसंबरमासः (हि.स.)।राष्ट्रपतिः द्रौपदीमुर्मुः सोमवासरे राष्ट्रपतिभवने आयोजिते एकस्मिन् समारोहे त्रयाणां देशानां राजदूतानां परिचयपत्राणि स्वीकृतवती।

परिचयपत्राणि समर्पितवन्तः ईरानदेशस्य राजदूतः डॉ. मोहम्मद् फतहअली, ब्रुनेई दारुस्सलामदेशस्य उच्चायुक्ता सीती आर्नीफरिज़ा हाजी मोह्द् जानी, तथा फेडरेटेड् स्टेट्स् ऑफ् माइक्रोनेशिया देशस्य राजदूतः जॉन फ्रिट्ज़ इति आसन्। अस्मिन् अवसरे राष्ट्रपतिः सर्वान् राजदूतान् स्वागतं कृत्वा तेषां कार्यकालाय शुभाशयान् अर्पितवती।

---------------

हिन्दुस्थान समाचार