सरदारपटेलस्य जीवनम् अस्माकं सर्वेषां कृते सतत–प्रेरणायाः स्रोतः अस्ति — केशवप्रसादमौर्यः।
लखनऊनगरम्, 15 दिसम्बरमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमंत्री केशवप्रसादमौर्यः सोमवासरे लखनऊ-स्थिते सर्वकार-आवासे ‘सप्त–कालिदास–मार्गे’ राष्ट्रैक्यस्य अखण्डतायाश्च प्रतीकस्य, स्वातन्त्र्यप्राप्तोत्तरभारते प्रथमस्य गृहमन्त्रिणः उपप्रधानमन्त्रिणश्च
सरदार पटेल के चित्र पर पुष्पांजलि करते केशव प्रसाद मौर्य


लखनऊनगरम्, 15 दिसम्बरमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमंत्री केशवप्रसादमौर्यः सोमवासरे लखनऊ-स्थिते सर्वकार-आवासे ‘सप्त–कालिदास–मार्गे’ राष्ट्रैक्यस्य अखण्डतायाश्च प्रतीकस्य, स्वातन्त्र्यप्राप्तोत्तरभारते प्रथमस्य गृहमन्त्रिणः उपप्रधानमन्त्रिणश्च, ‘भारत–रत्न’-सम्मानितस्य ‘लौहपुरुष’ इति ख्यातस्य सरदार–वल्लभभाई–पटेलस्य पुण्यतिथौ तस्य चित्रे माल्यार्पणं कृत्वा पुष्पाञ्जलिं समर्प्य विनम्रां श्रद्धाञ्जलिं दत्तवान्।

उपमुख्यमंत्रीः स्वस्य सामाजिक–माध्यम–लेखापत्रे ‘एक्स्’ इति नाम्नि लिखितवान् यत् कर्तव्येन साहसेन राष्ट्रसेवया च ओतप्रोतं सरदार–पटेलस्य जीवनं अस्माकं सर्वेषां कृते सतत–प्रेरणायाः स्रोतः अस्ति। राष्ट्रैक्ये तस्य आगाधं समर्पणम् अद्यापि अस्मान् सशक्तस्य संगठितस्य विकसितस्य च भारतस्य निर्माणाय प्रेरयति। ‘लौहपुरुष’ सरदार–वल्लभभाई–पटेलः रियासतां सफलेन एकीकरणेन राष्ट्रस्य एकतायाः सुरक्षायाश्च दृढं आधारं प्रदत्तवान्। कृषकान् पिछडवर्गान् वञ्चितवर्गांश्च सहकारितया संयोज्य तेन देशः स्वरोजगारस्य आत्मनिर्भरतेः च दिशि अग्रे नीतः।-------------

हिन्दुस्थान समाचार / Dheeraj Maithani